गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 85, कुल 446 में से
संदर्भ में पढ़ेंईश्वर उवाच शृणु देवि प्रवक्ष्यामि यद् गुह्यं परमाद्भुतम् ॥ २६ ॥ न वक्तव्यं त्वया किंचिज्जनेषु कथितं मया । अपृथक्त्वशरीरत्वाद् वक्ष्यामि तव सुव्रते ॥ २७ ॥ यदुक्तं ते मया तन्त्रं त्रिविधं त्रिगुणात्मकम् । तामसं कुत्र संप्रोक्तं राजसं चापि कुत्रचित् ॥ २८ ॥ सात्त्विकं तत्र कुत्रापि धीमांस्तस्मात् तदुद्धरेत् । तामसं नरकायैव स्वर्गाय राजसं प्रिये ॥ २६ ॥ सात्त्विकं मोक्षदं प्राहुस्तुरीयं निष्फलं शिवे । शास्त्राणि चैव गिरिजे तामसानि निबोध मे ॥ ३० ॥ तामसानि पुराणानि तन्त्राणि तानि च प्रिये । स्वर्गमोक्षविहीनानि तानि यत्नाद्विवर्जयेत् ॥ ३१ ॥ इ(य?म) मर्थं पुरा देवि पृष्टवान् देवकीसुतः । मां प्रसाद्य तपस्तप्त्वा भोगेन मुक्तिसाधनम् ॥ ३२ ॥ तस्मै वापि मया प्रोक्तं संदेहोच्छेदकारकम् । ततस्तेनापि संप्रोक्तं ब्रह्मणे हंसरूपिणे ॥ ३३ ॥ नन्दिकेश्वर एतद्वै मयोक्तं पुनरेव हि । सोऽपि चाभूत्स्वयं कर्ता मम तुल्यो महामतिः ॥ ३८ ॥ पुष्पदन्ते ततः प्रोक्तं तन्त्रमेतद्वरानने । गन्धर्वेभ्यो ददौ तेन रहस्यं परमाद्भुतम् ॥ ३५ ॥ ब्रह्मणा च तथा प्राप्तं तस्मात् ते मुनयः प्रिये । पुरन्दरेणाङ्गिरसाद् भार्गवाद्दैत्यराट् प्रभुः ॥ ३६ ॥