गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 90, कुल 446 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । पार्वत्युवाच शक्तितन्त्रं महादेव संदेहरहितं कुरु । तथा कथय देवेश भोगेन मुक्तिसाधनम् ॥ १ ॥ ईश्वर उवाच निःसंदेहं महातन्त्रं श्रूयतां खलु सांप्रतम् । गोपितव्यं पशोरग्रे पूर्णचन्द्रनिभानने ॥ २ ॥ परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते । ब्रह्मणोऽपि परं रूपं निर्गुणं वक्ष्यते मया ॥ ३ ॥ श्रूयतां विमले भद्रे आत्मानमात्मना पुनः । प्रणमामि महादेवीं तुरीयां ब्रह्मरूपिणीम् ॥ ४ ॥ यस्या स्मरणमात्रेण भवाब्धौ न निमज्जते । अस्याश्चाराधनं कृत्वा नान्यैस्याराधनं चरेत् ॥ ५ ॥ अन्यस्य स्मरणाद् दुःखं योगिनीशापमालभेत् । अपमृत्युर्भवेत् तस्य मृते च नरकं व्रजेत् ॥ ६ ॥ एनामुपास्य देवेशि किं न सिध्यति भूतले । सकृदेनामुपास्यैव न मातुः स्तनपो भवेत् ॥ ७ ॥ तस्माद् देवि शुभे भद्रे तुरीयां समुपाश्रयेत् । आदौ कामेश्वरी ज्ञेया द्वितीया भगमालिनी ॥ ८ ॥ १ 'तस्या' क. पाठ । २ 'नान्यदा' ख. पाठ. । ३ 'देवि ख पाठ ।