गरुड़ पुराण
Garuda Purana
महर्षि वेदव्यास द्वारा
पृष्ठ 45, कुल 634 में से
संदर्भ में पढ़ेंकाण्ड ] विष्णुसहस्रनाम ३५
नागानां पतिरर्कस्य दक्षस्य पतिरेव च।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः।
पर्वतानां पतिश्चैव निम्नागानां पतिस्तथा॥
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा।
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा।
सरसां च ( रसानां च ) पतिश्चैव भूतानां च पतिस्तथा॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च॥
महात्मा मङ्गलो मेयो मन्दरो मन्दरेश्वरः।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः॥
मालाधरो महादेवो महादेवेन पूजितः।
महाशान्तो महाभागो मधुसूदन एव च॥
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः।
मायात्मा मायया बद्धो मायया तु विवर्जितः॥
मुनिस्तुतो मुनिर्मैत्रो महाना ( रा ) सो महाहनुः।
महाबाहुर्महादान्तो ( महादन्तो ) मरणेन विवर्जितः॥
महावक्त्रो महात्मा च महाकायो महोदरः।
महापादो महाग्रीवो महामानी महामनाः॥
महागतिर्महाकीर्तिर्महारूपो महासुरः।
मधुश्च माधवश्चैव महादेवो महेश्वरः॥
मखेज्यो मखरूपी च माननीया मखेश्वरः (महेश्वरः)।
महावातो महाभागो महेशोऽतीतमानुषः॥
मानवश्चै¹ मनुश्चैव मानवानां प्रियङ्करः।
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा॥
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः॥
नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः।
रामो रमापतिश्चैव सभार्यः² परमेश्वरः॥
रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च॥
नीलमेघनिभः शुद्धः कालमेघनिभस्तथा।
धूम्रवर्णः पीतवर्णो नानारूपो ( नानावर्णो ) ह्यवर्णकः॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च।
सर्ववर्णो महायोगी यज्ञो ( याज्यो ) यज्ञकृदेव च॥
सुवर्णवर्णांश्चैव सुवर्णाख्यस्तथैव च।
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव ( सुवर्णाशस्तथैव च ) च।
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च॥
सुपर्णी च महापर्णी सुपर्णस्य च कारणम्।
वैनतेयस्तथादित्य आदिरदिकरः शिवः॥
कारणं महतश्चैव प्रधानस्य च कारणम्।
बुद्धीनां कारणं चैव कारणं मनसस्तथा॥
कारणं चेतसश्चैव अहङ्कारस्य कारणम्।
भूतानां कारणं तद्वत् कारणं च विभावसोः॥
आकाशकारणं तद्वत् पृथिव्याः कारणं परम्।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम्।
श्रोत्रस्य कारणं तद्वत् कारणं च त्वचस्तथा॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम्।
हस्तयोः कारणं तद्वत् पादयोः कारणं तथा॥
वाचश्च कारणं तद्वत् पायोश्चैव तु कारणम्।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम्॥
यमस्य कारणं चैव ईशानस्य च कारणम्।
यक्षाणां कारणं चैव रक्षसां कारणं परम्॥
नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम्।
जन्तूनां कारणं चैव वसूनां कारणं परम्॥
१-मानवो मनुजश्चैव०। २-त्रातार्यः पर०।