गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 197, कुल 360 में से
संदर्भ में पढ़ेंअथ चतुर्थोऽध्यायः
विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥ १ ॥
विप्रतिपत्तौ साक्षिणः प्रष्टव्याः। तैर्यथोक्तं तथा सत्यं व्यवस्थाप्यम्। अत्र नारदः—एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते ॥ लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च। गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः॥ अन्ये पुनरनुद्दिष्टाः साक्षिणः समुदाहृताः। ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम्॥ कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः। कुल्याकुल्यविवादेषु भवेयुस्तेऽपि साक्षिणः॥ इति ॥१॥
जटिल विवाद होने पर साक्षियों की सहायता से सत्य का निर्णय करे ॥१॥
ते पुनः कीदृशाः कियन्तो वेत्याह—
बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञां निष्प्रीत्य- नभितापाश्चान्यतरस्मिन् ॥ २ ॥
वर्णप्रयुक्तान्याश्रमप्रयुक्तान्युभयप्रयुक्तानि स्वानि कर्माणि श्रौतानि स्मार्तानि च। तेष्वनिन्दिता अकरणादन्यथाकरणाद्वा। अत्र याज्ञवल्क्यः— त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः। इति।
प्रत्ययो विश्वासस्तेन ये चरन्ति ते प्रात्ययिकाः। य एवंभूता [ स्ते ] राज्ञामदृष्टदोषतया विश्वसनीयाः। अर्थिप्रत्यर्थिनोरन्यतरास्मिन्निष्प्रीतयो निःस्नेहा। अनभितापा अकृतद्वेषाः। एवंभूता बहवः साक्षिणः स्युः। अत्र याज्ञवल्क्यः— उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित्। इति। अभ्यन्तरस्तु निक्षेपे साक्ष्यमेकोऽपि वाच्यते। अर्थिना प्रहितः साक्षी भवत्येकोऽपि याचितः॥ इति कात्यायनः। प्रमाणमेकोऽपि भवेत्साहसेषु विशेषतः। इति व्यासः॥ २ ॥
अपने कर्म में प्रतिष्ठित, राजाओं के विश्वासपात्र, ( अर्थी और प्रत्यर्थी दोनों पक्षों में से किसी के प्रति ) पक्षपात या द्वेष न रखने वाले अनेक साक्षी होने चाहिए ॥ २ ॥