गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 253, कुल 360 में से
संदर्भ में पढ़ें१८६ | गौतमधर्मसूत्राणि
विवत्सायाश्च ॥ २६ ॥
वत्सेन वियुक्ता विवत्सा । तस्याश्च गवादेः क्षीरमपेयम् । अत्र प्रकरणे प्रतिषिद्धविकारस्यापि दध्यादेः प्रतिषेधमिच्छन्ति । आचारस्त्वनिर्दशायां तथाऽन्यत्रानियतः ॥ २६ ॥
जिस गाय का बछड़ा न हो उसका भी दूध अपेय होता है ॥ २६ ॥
इदानीं स्वरूपत एवाभक्ष्यानाह—
पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः ॥ २७ ॥
अभक्ष्या इत्युत्तरत्र वक्ष्यति । येषां पाणिपादेषु पञ्चोक्षा नखास्ते पञ्चनखा वानरादयोऽभक्ष्याः । शल्यादीन्वंर्जयित्वा । शल्यको वराहविशेषो यस्य नाराचाकाराणि लोमानि । शशः प्रसिद्धः । श्वावित्कल्पको यस्य चर्मणा तनुत्राणं क्रियते । गोधा कृकलासाकृतिर्महाकायः । खड्गो मृगविशेषः । शृङ्गमृत्युः । कच्छपः प्रसिद्धः । अत्र पठन्ति—
अभक्ष्याणां तु यन्मूत्रं तदुच्छिष्टं तथैव च ।
अभोज्यमिति निर्दिष्टं विष्ठा चैव प्रयत्नतः । इति ॥ २७ ॥
शल्यक ( विशेष प्रकार का सूअर ), खरगोश, श्वावित्, गोह, खड्ग, और कच्छप को छोड़कर पाँच नखवाले ( वानर इत्यादि ) पशु अभक्ष्य होते हैं ॥ २७ ॥
उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ॥ २८ ॥
उभयतोदन्ता अश्वादयः । दद्भाव आर्षः । केशिनः केशातिशययुक्ताश्चमर्यादयः । अलोमानः सर्पादयः । एकशफा एकखुराः । अनुभयतोदन्तार्थमिदम् । कलविङ्को ग्रामचटकः । प्लवः शकटबिलाख्यः पक्षी । हंसचक्रवाकौ प्रसिद्धौ । एते चाभक्ष्याः ॥ २८ ॥
जिसके मुख में ऊपर-नीचे दोनों ही जबड़ों में दाँत हों ( अश्व आदि ), अत्यन्त केश वाले ( चमरी आदि ), जिनके शरीर पर केश नहीं होते ( सर्प आदि ), एक खुरवाले पशु, ग्रामचटक, शकटविल और हंस, चक्रवाक पक्षी—ये अभक्ष्य होते हैं ॥ २८ ॥
काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकराः ॥ २९ ॥
काकादयः प्रसिद्धाः । जलजा अपि पक्षिण एव काकादिसंनिधानात् । तेषां विशेषणं रक्तपादतुण्डा इति । ग्रामे भवो ग्राम्यः । उत्तरयोश्चैतद्विशेषणं ग्राम्यकुक्कुटो ग्राम्यसूकर इति । आरण्ययोरप्रतिषेधः ॥ २९ ॥