भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 265, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 265

अथ तृतीयप्रश्ने प्रथमोऽध्यायः

पञ्चविधो धर्मः—वर्णधर्म आश्रमधर्म उभयधर्मो गुणधर्मो नैमित्तिक-[धर्म] श्चेति । तत्र वर्णप्रयुक्तो धर्मो वर्णधर्म उपनयनं ब्राह्मणस्याष्टम इति । आश्रमप्रयुक्त आश्रमधर्मो ब्रह्मचर्यादेः समिदाधानादिरिति । उभयप्रयुक्त उभयधर्मो ब्राह्मणस्य ब्रह्मचारिणः पालाशो दण्ड इत्यादि । अभिषेकगुणयुक्तस्य प्रजापालनादिर्गुणधर्मः । ब्रह्महत्यादौ निमित्ते कर्तव्यो नैमित्तिको धर्मः प्रायश्चित्तम् । तत्र नैमित्तिकं वक्ष्यन्नुक्तमनुभाषते—

उक्तो वर्णधर्मश्चाऽऽश्रमधर्मश्च ॥ १ ॥

उभयधर्मगुणधर्मयोरप्युपलक्षणमेतत् । यद्यप्यन्यत्रोक्तं नानुभाष्यतेऽननुभाषणेऽपि वक्ष्यमाणं शक्यते वक्तुमिति तथाऽपीहानुभाष्यत आशङ्कानिवृत्त्यर्थम् । अन्यथोपरिष्टाद्दैवकानि पुनःस्तोमादीनि प्रायश्चित्तान्युदाहरिष्यन्ते तानि च शूद्रस्य न संभवन्त्यतस्तद्वदेव प्रायश्चित्तान्तराण्यपि शूद्रस्य न स्युरिति कश्चिदाशङ्केत । अपर आह—य उक्तो धर्मः स एव वर्णिनामाश्रमिणां च धर्मः । वक्ष्यमाणस्तु पुरुषमात्रधर्मः । यदाह—अथ खल्वयं पुरुष इति । किं सिद्धं भवति । प्रतिलोमानामपि प्रायश्चित्तेष्वधिकारः सिद्धो भवति । यद्यपि तेषां भक्ष्याभक्ष्यविवेको नास्ति तथाऽपि गोब्राह्मणादिवधे ब्राह्मणस्वर्णादिहरणे च प्रायश्चित्तं भवत्येव । अकुर्वाणा एव तु प्रायश्चित्तं राज्ञा वध्याः । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादिमनुष्यमात्रधर्मा न वर्णेष्व्वाश्रमेषु वा नियताः । अतस्तदतिक्रमे युक्तमेव प्रायश्चित्तम् । यत्तु पूर्वमुक्तं प्रतिलोमास्तु धर्महीना इति । तदैहिकामुष्मिकश्रेयःसाधनेषु कर्मस्वधिकारनिवृत्तिपरमिति ॥ १ ॥

वर्णों के धर्म एवं ब्रह्मचर्यादि आश्रमों के धर्म की व्याख्या (हमने) कर दी है ॥ १ ॥

प्रायश्चित्तस्य निमित्तान्याह—

अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यते यथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनमिति ॥ २ ॥

अथ खल्विति वाक्यालंकारे । अयं पुरुष इति संघातवर्तिनं प्रत्यगा-