भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 270, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 270

सानुवाद-मिताक्षरावृत्तिसहितानि २०३

पयोव्रतता क्षीराहारता । व्रतग्रहणादुपवासन्‍यायेन । शाकं वास्तुकादि । फलं कदल्यादेः । प्रसृतया कः प्रसृतपरिमितैर्यवैः पक्व ओदनः । तत्रौशनसो विशेषः—स्नातः शुचिर्भूत्वोदितेषु नक्षत्रेषु ताम्रभाजने प्रसृतयावकं श्रपयेद्यथा यथागूर्भवति । तस्य श्रपणकाले रक्षां कुर्यात् । ‘नमो रुद्राय भूताधिपतये पर्वतानां पतये त्वमिमं रक्षस्व’ इति । शृतेऽवरोप्य देवस्य त्वा सवितुरित्यादिनोत्पूय ततोऽभिमन्त्रयेत्—

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णेदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥
वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तनम् ।
अलक्ष्मीं कालकण्ठीं च सर्वं पुनत मे यवाः ॥
महापातकसंयुक्तं दारुणं राजकिल्बिषम् ।
बालवृत्तमधर्मं च सर्वं पुनत मे यवाः ॥
सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् ।
ब्राह्मणानां परोवादं सर्वं पुनत मे यवाः ॥
श्वसूकरावधूतं च काकाद्युच्छिष्टमेव च ।
मातापित्रोरशुश्रूषां सर्वं पुनत मे यवाः ॥
गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चोरस्यान्नं तथाऽभक्ष्यं सर्वं पुनत मे यवाः । इत्येतैः षड्भिः ।

ततो ब्रह्मा देवानामिति प्राश्य ततः प्राणाय स्वाहेत्यादिभिर्यथोक्तं सर्वं प्राश्नीयात्षड्रात्रम् । ततो नियमातिक्रमजातप्रतिषिद्धसेवनजादभक्ष्यभक्षणजाच्च सर्वस्मात्पापात्प्रमुच्यते । सप्तरात्रं पीत्वा भ्रूणहत्यां गुरुतल्पं सुवर्णस्तैन्यं सुरापानं च पुनाति । एकादशरात्र पीत्वा सर्वकृतपापं नुदति । एकविंशतिरात्रं पीत्वा गणान्पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यति । एवमहरहरनन्य्याहारो यवागूं प्राश्नीयादिति । सर्पिरादौ हिरण्यं निघृष्य प्राशनं हिरण्यप्राशनम् । घृतप्राशनं प्रसिद्धम् । सोमपानं क्रतावुक्तम् । बहिरप्यन्ये । इतिकरणाद्यच्चान्यदेवमुक्तं पञ्चगव्यशङ्खपुष्पादि तस्य प्राशनं मेध्यं विज्ञेयम् ॥ १३ ॥

केवल दूध पर रहना, केवल शाक का भोजन करना, केवल फलाहार करना, केवल जीवन धारण के लिए पर्याप्त अल्प (एक पसर या मुट्ठी) जौ के अन्न का भोजन, घी आदि में सोने को रगड़कर पीना, घृतपान, (यज्ञादि में) सोमपान, (पञ्चगव्य, शङ्खपुष्प आदि का पान करना) ये सभी पवित्र करने वाली विधियाँ हैं ॥ १३ ॥