भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 329, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 329

अथ तृतीयप्रश्ने अष्टमोऽध्यायः

कृच्छ्रातिकृच्छ्रौ चान्द्रायणमित्युक्तम्। तत्र क्रमेण कृच्छ्रादिस्वरूपमाह—

अथातः कृच्छ्रान्व्याख्यास्यामः ॥ १ ॥

अथशब्दोऽधिकारार्थः । अतःशब्दो हेतौ । य एत आख्याता न शक्यन्ते कर्तुमतः कृच्छ्रान्व्याख्यास्याम इति ॥ १ ॥

अब हम कृच्छ्र का वर्णन करेंगे ॥ १ ॥

हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ॥ २ ॥

यज्ञियैर्यवैरकादिव्यतिरिक्तैर्निष्पादितान्घृतादिसंयुक्तान्क्षारलवणवर्जितान्प्रातराशान् । अश्न ( इय )न्त इत्याशा ग्रासाः । दिवा भोज्यान्प्राशान्भुक्त्वा । अथापरं त्र्यहमिति वक्ष्यमाणत्वादत्रापि त्र्यहमिति गम्यते । तिस्रो रात्रीर्नाश्नीयादिति तस्मिंस्त्र्यहे रात्र्यशनप्रतिषेधः श्रुत्यनुसारेण कृतः । पुनरयं वक्तव्यः । कथम्-सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति परिसंख्यानाद् द्विरेव भोजनं प्राप्तम् । तत्र प्रातराशान्भुक्त्वेत्युक्ते परिसंख्यानात्सिद्धा रात्रावशननिवृत्तिरथोत्तरत्र दिवा भोजननिवृत्तिः॥२॥

तीन दिन तक प्रातः काल हविष्य का भक्षण करे और सन्ध्या को उपवास करे ॥ २ ॥

अथापरं त्र्यहं नक्तं भुञ्जीत ॥ ३ ॥

एवं दिवा हविष्यभोजनेन त्र्यहं नीत्वाऽनन्तरं त्र्यहं नक्तमेव भुञ्जीत । हविष्यानित्येव ॥ ३ ॥

पुनः तीन दिन केवल सन्ध्या को हविष्य का भक्षण करे ॥ ३ ॥

अथापरं त्र्यहं न कंचन याचेत ॥ ४ ॥

अथ नक्तभोजनत्र्यहानन्तरमपरं त्र्यहं न कंचन बन्धुमपि याचेत । याच्ञाप्रतिषेधोऽयम् । स्वद्रव्यस्य वाऽयाचितलब्धस्याप्रतिषेधः । एवमुक्ते हविष्यनियमो न प्राप्नोति । कालविशेषाश्रवणाद् द्विर्भोजनं च प्राप्नोति । न याचेतेत्यत्रापि हविष्यानित्येवानुवर्तते । अयाचितलब्धेऽपि सकृदेव सिद्धम् । कुतः । अथापरमिति वचनस्य पूर्वेण सदृशार्थत्वात् । तत्तु दिवा नक्तं वा यथेच्छम् । अन्ये तु त्र्यहमयाचितव्रत इत्यापस्तम्बीये दर्शना-