भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 342, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 342

अथ तृतीयप्रश्ने दशमोऽध्यायः

अथ दायविभागः—

ऊर्ध्वं पितुः पुत्रा रिक्थं भजेरन् ॥ १ ॥

ऊर्ध्वं पितुः पितरि मृते तदीयं रिक्थं स्वगृहक्षेत्रदासगवाश्वस्वर्णादिकं पुत्रा भजेरन्पुत्रास्तत्र भागिनः। पुत्राणां तत्स्वामित्वमित्युक्तं भवति। ऊर्ध्वं पितुरिति वचनाज्जीवति तस्मिन्न तत्र पुत्राणां स्वाम्यम्। तथा च मनुः—

ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः सह ।
भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ इति।

पितृशब्दस्य संबन्धिशब्दत्वादेव सिद्धे पुत्रग्रहणं नियमार्थम्। तेन पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेदित्यादिवचनजातमाचार्यस्याभिमतं न भवति। पुत्रा एवं सर्वं धनादिकं गृहीत्वा मातरं यथावद्रक्षेयुरिति मन्यते। श्रूयते च—तस्मात्स्त्रियो निरिन्द्रिया अदायादा इति। मनुरप्याह—

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ इति ॥ १ ॥

पिता की मृत्यु के बाद पुत्र उसकी सम्पत्ति प्राप्त करे ॥ १ ॥

निवृत्ते रजसि मातुर्जीवति चेच्छति ॥ २ ॥

अथवा जीवत्यपि पितरि पुत्रा रिक्थं भजेरन्निति। इच्छति सति। तदनुज्ञयेत्यर्थः। तस्य कालः—

निवृत्त रजसि मातुः। उपरतजस्कायां निवृत्तप्रसवायामित्युक्तं भवति ॥ २ ॥

अथवा पिता के जीवन-काल में भी माता के रजोदर्शन-आयु समाप्त होने पर इच्छानुसार विभाजन करे ॥ २ ॥

सर्वं वा पूर्वजः स्वेतरान्बिभृयात्पितृवत् ॥ ३ ॥

ज्येष्ठ एव सर्वं धनं स्वीकृत्य गृहीत्वेतरान्कनिष्ठान्बिभृयात्। तेऽपि तस्मिन्पुत्रवद्वर्तेरन् ॥ ३ ॥