गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 106, कुल 332 में से
संदर्भ में पढ़ेंअथ—इध्माद्याहरणानन्तरम् । आप्लुत्य-स्नात्वा । अपराह्न एव । दम्पती भुञ्जीयाताम् । इति भिन्नक्रमेण योजनीयम् । पूर्वाह्ण एव स्नानस्याम्नानात् । तद्बाधे च कारणविशेषाभावात् । तथाच स्मर्यते— “मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्ण एव कुर्वीत देवतानाञ्च पूजनम्” इति । “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले” ॥ इति चैवमादि । “अपराह्णे व्रतोपाय(१)नमश्नीयात्”इति च तन्त्रान्तरेऽप- राह्न एवानयोर्भोजनमुपदिश्यते । तस्माद्यथोक्त एवार्थः । अह्नोऽपरोभागोऽ(२)प- राह्नः। तत्रैव भुञ्जीयातामित्येकदैव भोजनमत्र नियम्यते । “सायम्प्रातर्द्विजाती- नामशनं देवकल्पितम्” इति द्विर्भोजनस्य नैसर्गिकस्य पक्षप्राप्तत्वात् । किम् ? औपवसथिकम् । उपवसथेनोपवासेन संसृष्टम् (पा० ४।४।२२) ठक् । ठस्येकः । आदिवृद्धिः । तत्राऽपि यदविरुद्धम् । यच्चैनयोर्दम्पत्योः काम्यं-कमनीयं रुचितं स्याद्भवेत् । तदपि सर्पिर्मिश्रं स्यात् । यत्खलु कुशलेन सुखेन । “परिणमेदि”ति शेषः । एतदुक्तम्भवति । इत्थमौपवसथिकमल्पं भुञ्जीयातां यद्भक्तमनयोः सु- खेन परिणमति । न मनागपि शरीरवैषम्यमुत्पादयति । येन खल्वविघ्नेन श्वोयागः सम्पत्स्यत इति । किं तदौपवसथिकन्तदाह—स्मृत्यन्तरम्— “लवणं मधु मांसं च क्षारान्नोधेन भूयते । उपवासे न भुञ्जीत नोरूरात्रौ च किञ्चन ॥” इति । अत्र-उरुरात्रावित्यधिकरात्रौ भोजननिषेधाद्दिवा दैवादभोजने रात्रेः प्रथमयामेऽपि भोजनन्दर्शयति— “दिवोदिनानि कर्म्माणि स्वकाले न कृतानि चेत् । शर्व्वर्याः प्रथमे यामे तानि कुर्यादतन्द्रितः ॥” इति च स्मृत्यन्तरमिति च- न्द्रकान्तः । वस्तुतस्तुअपराह्न एवेत्यक्षरस्वारस्यादेकभक्तरूपस्यौपवसथिकाशनस्य स एव मुख्यः कालः । ततः सूर्य्यास्तपर्य्यन्तं गौणस्तथाच निर्णयसिन्धौ स्कान्दे- “दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्तमतस्तत्स्याद्दिवाैव हि”इति । दीपिकायान्तु-मध्याह्नान्त्यदले त्रिभागसमये स्यादेकभक्तम्”त्युक्तम् ॥ २६ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया-“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां प्रथमप्रपाठकस्य पञ्चमी कण्डिका ॥ १ ॥ ५ ॥ * ॥
( १ ) व्रतमुपेयते स्वीक्रियते अनेनेति-अयतेःकरणे ल्युट् योरनः ॥ ( २ ) तृतीयः ।