गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 124, कुल 332 में से
संदर्भ में पढ़ेंतत—स्तृतादेवेत्यर्थे इति कौमुदी। तत्रायमाशयः। तत्पदस्य पूर्वप्रक्रान्त- वाचकत्या स्तृतस्य चाव्यवहितोपस्थितत्वात्तत्परामर्शौचित्यात्। न च विनि- युक्तविनियोगविरोधः। औपदेशिकत्वात्। यथा "व्रीहीन्प्रोक्षती"त्यादौ प्रो- क्षितानामेव व्रीहीणामवघातान्वयः। न च तत्र "प्रोक्षिता व्रीहयोऽवघाताय कल्पन्त" इति स्मरणात्सामानाधिकरण्यानुरोधात्तथोपदेशोगम्यत इति न दोष इति वाच्यम्। अत्रापि तत्पदस्य प्रक्रान्तवाचकत्वोपदेशसत्त्वात्। अत एव “न तर्हि बर्हिष इवे"ति कुसुमाञ्जलौ वर्द्धमानचरणैर्बर्हिष इवेति व्यतिरेके दृष्टान्त इत्युक्तम्। धीरवीरादिपद्धतिरप्येवमेव। भाष्यकृतस्तु—तत एव वि- स्तीर्णशेषादेवेति व्याचक्षते— “स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं स्मृतम्” इति स्तृतनिषेधात्तेन च स्तरणक्रिययैकदा नियमादृष्टजननात्तैनैव पवित्रकरणे विनियुक्तविनियोगविरोधाच्चानास्तृतादेव ग्रहणमुचितमिति तेषामाशयः। प्रादे- शमात्रे—विस्तृततर्जन्यङ्गुष्ठप्रमाणे । प्रमाणेऽर्थे मात्रच्प्रत्ययः (पा० ५।२।३७) पवित्रे कुरुते इति द्विवचनन्दलापेक्षम्। प्रादेशमात्रस्य वर्हिर्द्वयस्य खल्वत्र पवि- त्राकरणमुपदिश्यते। न हि द्विदलपवित्रस्य द्वित्वं शक्यते वक्तुम्। वर्हिषः प्रादे- शमात्र इत्यभिधानात्। तथाच कर्म्मप्रदीपे कात्यायनः— “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयम्पवित्रं यत्र कुत्रचित्॥” एतदेव हि पिञ्जल्या लक्षण समुदाहृतम्। आज्यस्योत्पवनार्थंयँत्तदप्येतावदेवतु॥” इति। “समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति” इति च ब्राह्मणम्। अत एव शुभकर्म्मनिर्णये— “नन्वनन्तर्गर्भिणं साग्रं कौशं द्विदलमेवचे”ति कात्यायनवचनादेतावद्विशेषणयुक्तं कुशपत्रद्वयं पवित्र- पदार्थस्तत्र च द्विवचनविभक्त्यर्थद्वित्वान्वयात्पत्रचतुष्टयन्तावल्लभ्यते तथाचाचा- रविरोध इति चेन्मैवम्। "प्रादेशमात्रे पवित्रे कुरुते" इत्यत्र पवित्रपदस्य शक्यै- कदेशपत्रमात्रपरत्वात्। मुख्यपरत्वे हि सूत्रे प्रादेशमात्रे इति विशेषणं व्यर्थ- मापद्येत विशिष्टशक्तपदादेव तल्लाभसम्भवात्। किञ्च “पवित्रे स्थ” इति मन्त्रलिङ्गात् प्रकृतसूत्राच्च पत्रचतुष्टयविनियोगशङ्कामाभूदिति पवित्रलक्षणम- भिधाय कात्यायनेनोक्तम् “आज्यस्योत्पवनार्थंयँत्तदप्येतावदेव तु” इति। ननु- विनिगमनाविरहात् कथन्तदनुरोधेन सूत्रादौ मुख्यार्थत्याग इति चेन्न तस्य सू- त्रतात्पर्य्योन्नायकत्वात्। तदुक्तम्— “अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत्” इति। एवञ्चाचारोपष्टब्धं "पवित्रमन्तरा कृत्वे"ति गृह्यसङ्ग्रहवचनमपि