गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 147, कुल 332 में से
संदर्भ में पढ़ें११६ दर्शपूर्णमासविधिः । [ १ प्रपाठके दीनि प्रत्यङ्गगम्यानि बाह्यानि । तथाचमनुः— "अव्यङ्गा(१)ङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥" इति ॥ अव्यङ्गाङ्गीम्-अविकलाङ्गीम् । तनुलोमकेशदशनाम्-अनतिस्थूललोमकेश- दन्ताम् । स्त्रियमिति नपुंसकत्वनिरासार्थम् ॥ यान्याभ्यन्तराणि तान्युक्तान्या- श्वलायनगृहे "दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वे"-त्यादिवाक्ये।क्तानि । तान्ययमप्यनुपदं सूत्रयित्वा दर्शयिष्यति ॥ २ ॥ लक्षणावगतौ प्रकारान्तरमाह— तदलाभे पिण्डान् ॥ ३ ॥ तदिति प्रकृतः स्त्रीलक्षणवित् कुशलः परामृश्यते "कुर्वीत" इति वाक्यशे- षः । तैश्च स्वयमेव दारान्परीक्षेतत्यर्थः । पिण्डानित्यविशेषोपादानेऽपि मृद एव तान्कुर्वीत । उत्तरसूत्रदर्शनात् ॥ ३ ॥ वेद्याः सीताया ह्रदाद्गोष्ठाच्चतुष्पथाद्भादेवनादादहनादीरणात् ॥४॥ वेदिः परिष्कृता भूमिरग्निष्टोमादौ विहिता यज्ञस्थानमिति यावत् । तस्याः । सीता लाङ्गलपद्धतिः । कृष्टं क्षेत्रमिति यावत्तस्याः । ह्रदोऽगाधजलाशयस्तस्मा- त् । गावोयत्र तिष्ठन्ति तद्गोष्ठन्तस्मात् । चतुष्पथः प्रसिद्धः। तस्मात् । आगत्या- क्षिकैर्दीव्यते यत्र तद्भादेवनं द्यूतस्थानन्तस्मादादेवनात् । आ मर्यादया दह्यते देहो- यत्र तद्दादहनं श्मशानन्तस्मात् । "ईरणन्तूषरे शून्येऽपी"-ति मेदिन्यभिधाना- दीरणमूपरं, यत्रोप्तं बीजन्न प्ररोहति तस्मात् । एताभ्योमृदमादाय पृथगेवाष्टौ पिण्डान् कुर्वीतेत्यर्थः ॥ ४ ॥ सर्वेभ्यः सम्भार्य्यन्नवमम् ॥ ५ ॥ सम्भार्यं संहार्य संहृत्य क्रियमाणम् । सम्पूर्वाद्धरतेः "ऋहलोर्ण्यत्" (पा०३। १।१२४ ) इतिण्यत्प्रत्यये आदिवृद्धिः । हस्य च भश्छान्दसः (पा०३।१।८४वा०) सर्वेभ्योवेद्यादिभ्यः ॥ ५ ॥ समान् कृतलक्षणान् ॥ ६ ॥ तांश्च नव पिण्डान् समांस्तुल्यप्रमाणान् । लक्षणं चिह्नं, कृतं लक्षणं येषां स्तान् । यतमः पिण्डोयतमस्या मृदस्तच्चिह्नङ्कर्त्तव्यम् । वक्ष्यमाणकृत्यनि- र्वाह्वाय ॥ ६ ॥ ( १ ) पुनर्मनुः "नोद्वहेत्कपिलाङ्कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां ना- र्तिलोम्नीं न वाचालान्न पिङ्गलाम् ॥ नक्षत्रवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । नाहि- पक्षिप्रेष्यनाम्नीं न च भीषणनामिकाम्" ॥ इत्यादिसंस्कारदीपके म. म. हर्षनाथशर्म्म- कृते द्रष्टव्यम् ॥