भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 149, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 149

मिश्रमेतद्भवेत्सर्व्वय्याँ(१)त्पूर्व्वादित्फलं । नवसस्य ग्रहन्तत्स्याच्छुभोवाऽन च वाऽशुभः ॥” इति । अत्र प्रजास्तुतिनिन्दाद्वारेण चैव वस्तुतोनिन्दिताऽनिन्दिता चेति मन्तव्यम् । अत्र ( कन्यापरिग्रहे ) विशेषः शुभकर्म्मनिर्णये मुरारिमिश्रीये, सं- स्कारदीपके हर्षनाथशर्म्म निर्मिते च द्रष्टव्यः ॥ ९ ॥ ( अथज्ञातिकर्म्म ) अथेदानीमासन्नविवाहकालायाः कन्यायाः स्नपनमभिदधाति— क्लीतकैर्य्यैवम्मौषधैर्व्वा ऽऽप्लुतांऽऽप्तैर्गुहृत्सुराेत्तमेन सशरीरां त्रिर्मूर्द्धन्य- भिषिञ्चेत् “कामवेद ते नाम मदोनामासी”ति । “समानयामुमि”ति पतिनाम गृह्णीयात् । स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् ॥ १० ॥ ( मं० ब्रा० १।१।२-३-४ ) क्लीतकै—रुदकक्लिन्नैश्चूर्णीकृत्य द्रवीकृतैरित्यर्थः । आप्लुतां—कृतसर्वां- ङ्गोद्वर्त्तनाम् । सुहृत् स्निग्धहृदयो वयस्या मातृवर्गश्च सुरा—उदकम् ( निघं० १।१२ ) कोशेऽपि “वरुणासुराऽरविन्दानी”—त्युदकपर्यायेषु (२)पठ्यते इति म० म० मुरारिमिश्रादयः । तथोत्तमोदकेन(३)। सशरीरां—(४)कन्याम् मूर्द्धनि—शिरसि(५) । त्रि-र्व्वारत्रयमभिषिञ्चेत् । अयमर्थः । मूर्द्धनि तथाऽभि- षिञ्चेद्यथा सर्व्वमेव शरीरमभिषिक्तं भवतीति ॥ तत्र करणमन्त्रमाह—कामेत्या- दिय् । इति-एवमादिभिस्तिसृभिऋग्भिः स्वाहा कारान्ताभिः । ता यथा—“काम वेद ते नाम मदोनामासि समानयामुंऽसुरा ते अभवत् । परमत्र जन्माग्ने तप- सोनिम्मितोऽसि स्वाहा ॥ २ ॥ इमन्त उपस्थं मधुना सं सृजामि । प्रजापते- र्मुखमेतद्द्वितीयम् ॥ तेन पुंसो अभिभवामि सर्व्वान्वशिन्यसि राज्ञी स्वाहा ॥ ३ ॥ अग्निङ्क्रव्यादमकृण्वन्गुहानाः स्त्रीणामुपस्थमृषयः पुराणाः । तेनाऽन्यमकृण्वंस्तैस्त्रुङ्गं त्वाष्ट्रं त्वयि तद्दधातु स्वाहा”॥४॥ इति ॥ आसामर्थः ।

( १ ) यावत्सर्व्वम् “यावत्तावच्चसाकल्ये” इत्यमरात् ॥ ( २ ) ननु--प्रसिद्धत्वान्मद्यमेवास्तु इति चेन्न बाधसापेक्षविष्यापत्तेः । तत्स्पर्शेऽपि प्रायश्चित्तोपदेशात् । तथाचाङ्गिराः--“सुराया गन्धमाघ्राय स्नात्वाज्यं प्राश्य शुद्ध्यति । स्पर्शे प्रतिग्रहे चैव त्र्यहं पीत्वा तथोदकम्” । इति । सूत्रस्य जलपरतया समर्थनेनान्य- थानुपपत्तेरभावात् । अत एव गृह्यासङ्ग्रहः” सर्व्वेषु विप्राणामद्भिः पूर्व्वप्रवर्त्तनम् । यस्मात्सुरा जलम्प्रोक्तमद्भिरेवाऽभिषेचयेत्” ॥ इति ॥ ( ३ ) क्षारादिदोषरहितेन शोभनगन्धवर्णादियुक्तेन च ॥ ( ४ ) एतेन सर्वाङ्गस्नानं शिरआदिपादान्तमुक्तम्भवति तदेतदनुपदं व्यक्तीभविष्यति॥ ( ५ ) अत्रावच्छेदकत्वरूपविषयत्वं सप्तम्यर्थः । पृथगुक्तेः प्राधान्यमङ्गेषु शिरसो- ज्ञापयति ।