भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 153, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 153

वयवान्वयोऽस्त्येव । एकस्य हि पितृशरीरस्यावयवाः पुत्रद्वारा तास्वाहिता इति मिताक्षराकार-मदनपारिजातादयः प्राहुः ॥ कथञ्चिदेकपिण्डक्रियाप्रवेशेन निर्वाह्यं सापिण्ड्यं चन्द्रिकाऽपरार्कमेधातिथिमाधवादयोवदन्ति । नन्वेवं(१) विधातृशरीरावयवान्वयेन सापिण्ड्यातिप्रसङ्गेन एकपिण्डदानक्रियान्वयित्वेन वा गुरुशिष्यादेरपि श्राद्धदेवतावत्वात्सापिण्ड्यमिति न काप्यसपिण्डेत्यत आह- याज्ञवल्क्यः- "पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा” इति । मातृतः मातुः सन्ताने पञ्चमादूर्ध्वं, पितृतः पितुः सन्ताने सप्तमा- दूर्ध्वं सापिण्ड्यं "निवर्त्तत" इतिशेषः । तथाच वृद्धशातातपः- "पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । सपिण्डता निवर्त्तेत सर्ववर्णेष्वयं विधिः ॥” इति । [