भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 165, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 165

२४४ विवाहाध्यायः । [ २ प्रपाठक “अद्भिरेव द्विजाग्र्याणाङ्कन्यादानं प्रशस्यते । इतरेषान्तु वर्णानामितरेतरकाम्यया ॥” (अ० ३ श्लो० ३५) इति । उदकदानपूर्वकमेव ब्राह्मणानाङ्कन्यादानं प्रशस्तं क्षत्रियादीनाम्पुन- र्विनाऽप्युदकं परस्परेच्छया वाङ्मात्रेणापि कन्यादानम्भवति । उदकपूर्वकमपी- त्यनियमः ॥ ऋष्यशृङ्गः । “वरगोत्रं समुच्चार्य्य प्रपितामहपूर्वकम् । मधुपर्कार्चितायैनां दद्यात्कन्यां सदक्षिणाम् ॥” इति । सदक्षिणामिति । तथाच व्यासः— “श्रद्धायुक्तः शुचिर्दान्तोदानन्दद्यात्सदक्षिणम् । अदक्षिणन्तु यद्दानं तत्सर्व्वन्निष्फलं भवेत् ॥ दक्षिणाभिरुपेतं हि कर्म्मसिद्ध्यति माढवे । सुवर्णमेव सर्वासु दक्षिणासु विधीय ( शिष्य ) ते ॥” इति । सुवर्णपदमिह विशेषविहितदक्षिणोतरपरं तेनोत्तरविवाहान्ते गौर्द- क्षिणेति वक्ष्यति । इह तु सुवर्णन्तौलकमितं स्वर्गकामके कर्म्मणि तस्यैव विशि- ष्य विधानात् । तथा च हेमाद्रौ नन्दिपुराणम्— “कृष्णलाः पञ्च माषस्तु माषैः षोडशभिः स्मृतम् । सुवर्णमेकन्तद्दानाद्दाता स्वर्गमवाप्नुयात् ॥” इति । “सुवर्णशब्दोऽयं ( कन्यादानादिदक्षिणाविशेषपरः ) पुल्लिङ्गएवा- शीतिगुञ्जापरिमितहिरण्यवचनः प्रयोज्योनपुंसकन्तु तत्रचान्यत्रचे”तिमुरारि- मिश्रा अप्याहुः ॥ तथा च मनुरपि— “पञ्चकृष्णलकोमाषस्ते सुवर्णस्तु षोडश” इति ॥ गोमिथुनञ्चापि सुवर्णाभावेऽत्र दक्षिणात्वेन वीरेश्वरादिभिःपद्धतिकृद्भि- र्हरहरादिभि-( पा०२ ) र्गृह्यभाष्यकृ(१)द्भिश्चोक्तमित्तिध्येयम् ॥ आश्वलायनः— “कन्यां वरयमाणानामेष धर्म्मोविधीयते । प्रत्यङ्मुखावरयन्ति प्राङ्मुखा प्रतिगृह्णते ॥ उभयस्यापि पक्षस्य पैतापौत्रीन्निरभ्यसेत् ॥” इति । पैतापौत्रीमिति पदमुभयपदवृद्ध्या त्रैवार्षिकमितिवदिति मुरारि- मेश्राः । पितृनिर्देशानन्तरं पुत्रनिर्देशकर्त्तव्यतामात्रपरत्वेऽप्येतस्य, यद्दानवाक्ये


( १ ) गोभिलोऽपि “गोदाने ( षोडशे वर्षे क्रियमाणे ) “गोमिथुनं दक्षिणा ब्राह्म- णस्य” “अश्वमिथुनं क्षत्रियस्य” “गौर्नैवसर्वेषामि”ति वक्ष्यति ( ३।१।१६-७) ॥ अत्र क्वचिदार्षेविवाहे गोमिथुनं दक्षिणेति वदन्ति ।

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 165, कुल 332 में से · BharatKosha