भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 168, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 168

१ कण्डिका ] गोभिलगृह्यसूत्रे- १३७ नाति-कन्यादानौ-पयिकधनानि । आपस्तम्बः - “अल्पेनाऽपि हि द्रव्येण यस्तु कन्यां प्रयच्छति । श्लेष्ममूत्रपुरीषाणि बहून्यर्षाण्सम(१)श्नुते ॥” इति ॥ एवमनेकानर्थहेतुत्वात्तदुक्तफलहानिप्रसङ्गाच्च पित्रा अन्येन वा केनापि स्त्री- विवाहोपाधिना धनन्नग्राह्यमिति ॥ १७ ॥ अहतेन वसनेन पतिः परिदध्यात् “याअकृन्तन्” इत्येतयर्चा । “परिधत्त धत्त वाससे-”ति च ॥१७॥ (म-ब्रा-१।१।५-६) अहतेनेति । अत्राहतलक्षणमुक्तं गृह्यासङ्ग्रहे- “सकृद्धौतं नवं श्वेतं सदसद्यन्न धारितम् । अहतन्तद्विजानीयात्सर्वकर्मसु पावनम् ॥” इति । अत्र श्वेतमित्युपलक्षणं नीलातिरिक्तस्य । तस्य विशिष्य शुभकर्म-