भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 171, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 171

संवेष्टितं—सम्यग्वाससाऽध उपरि च पार्श्वे चाहतेन वसनेनाच्छादितमि- त्यर्थः । कटं तृण-(वीरण-)ग्रथितमासनम् । तदलाभे—एतंजातीयं—तृणस- दृशम्(१) अन्यत् । तृणपुलकादि । पदा—चरणेन । प्रवर्त्तयन्तीं—वह्निसन्निधानमुप- वेशनार्थं नयन्तीं वधूं “प्र मे”—इत्यादिमन्त्रं पतिर्वाचयेत्—पाठयेत् । अत्रानुवादा- द्विधिरनुमीयते—वरवध्वोरुपवेशनार्थं कटः कर्त्तव्य इति । कर्त्तुश्चानियमः । मन्त्रोयथा— “प्र मे पतिः यानः पन्थाः कल्पतां शिवाअरिष्टा पतिलोकं गमेयम् ॥ ८ ॥ इति । अस्यार्थः ‘नः’ अस्माकम्(२) । ‘पति’—पतिः(३) । ‘मे’ मदर्थम् । ‘पन्थाः’ पन्थानम्(४) । ‘प्रकल्पताम्’ प्रकल्पयतु । अन्तर्भावितण्यर्थः । करोतु । ‘या’ येन(५)पथाऽहं ‘शिवा’ सुखावहा ‘अरिष्टा’ अहिंसिता च सती ‘पतिलोकं’ पतिगृहम्(६) । ‘गमेयम्’ (७)गम्यासम् ॥ ८ ॥ २० ॥ स्वयञ्जपेदजपन्त्यां “प्रास्या” इति ॥ २१ ॥ बाल्याल्लज्जया वा तस्याम् अजपन्त्याम्—अनुच्चारयन्त्याम् । पतिः स्वयञ्जपेत् । स्वयमुच्चारयेत् । तत्र जप्ये विशेषमाह—प्रास्याः । इति—एवमादिं मन्त्रम् । प्र मे इत्यस्य स्थाने प्रास्या इति कृत्वेत्यर्थः । एवं गमेयम्—इत्यत्र गम्या इति । अन्यथाऽनन्वयप्रसङ्ग इति द्रष्टव्यम् । तथाच मन्त्रार्थः । अस्याः पतिः ( अयमहं ) न आत्मनः (८)कृते पन्थानं प्रकल्पयतु । येन पथा शिवा अरिष्टा च सती त्वं पतिलोकं पतिगृहं गम्या गच्छ । आशिषि लिङ् । एतच्चाग्नि- प्रदक्षिणानन्तरं, तथाच गृह्यासङ्ग्रहे— “यदा निष्क्रामयेत्कन्यां वरः पाणिजिघृक्षया । अग्निप्रदक्षिणं कृत्वा कटं स्तीर्णमिदञ्जपेत् ॥” इति । अत्र पदानि क्रामयेदित्यपपाठः । अत्रपाठे तदेत्यध्याहार्यम् । “यच्छब्देन तु तच्छब्दोबोद्धव्यः सततं बुधैरि”ति योगिस्मरणात् । निष्क्रामये- त्पितृकुलान्मण्डपाद्गेहामानयेत्तदा जपेदिदं “प्रमेइति” “प्रास्याः” इति वा कन्या वा वरोवेति क्रमेणान्वेतव्यम् । पारस्करोऽपि—“प्रदक्षिणमग्निं परिक्र- म्योपविशति” इति ।


( १ ) प्रकारार्थेऽत्र ( पा० ५।३।६९ ) जातायारप्रत्ययः । ( २ ) “अस्मदोद्वयोश्च” ( पा० १।२।५९ ) इत्येकत्वेऽपि बहुवचनम् ॥ ( ३ ) “सुपां सुलुकू” ( पा० ६।१।३९ ) इति सोर्लुक् ॥ ( ४ ) अत्रोक्तेनैव सूत्रेण ( पा० ७।१।३९ ) अमः सुः ॥ ( ५ ) आङोऽत्र डादेशः ( पा० ७।१।३९ ) ॥ ( ६ ) पतिर्लोकते दृश्यते यत्र तत् ॥ ( ७ ) “लिङ्याशिष्याङ्” ( पा० ३।१।८६ ) इति गमेरङ् ॥ ( ८ ) अस्मभ्यम् । चतुर्थ्यर्थे षष्ठी ( पा० २।३।६२ ) बहुवचनमेकत्वार्थे पूर्ववत् ॥

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 171, कुल 332 में से · BharatKosha