गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 187, कुल 332 में से
संदर्भ में पढ़ें१५६ विवाहविधिः। [ २ प्रपाठके वत्यः । सायणस्तु-अदुर्मङ्गलीः । दुर्मङ्गलरहिता सुमङ्गलीस्त्वमिति व्याचख्यौ । ( ऋ० सं० ८।३।२८।३ ) । अतस्त्वम् । 'पतिलोकम्' पतिगृहम् । 'आविश' प्राप्नुहि । अथ च 'नः' अस्माकं 'द्विपदे' चतुष्पदे' च 'शं' भवेत्युक्तार्थकम् ॥१२॥ “इमान्त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृधि । दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि ॥ १३ ॥ अस्यार्थः-हे 'इन्द्र' ! 'त्वं' 'मीढ्वः' सेचकः । ( निषेक्ता ) रसाधिष्ठातृ- त्वात्(१) । 'इमां' वधूं 'सुपुत्रां' शोभनपुत्रवतीं 'सुभगां' सौभाग्यवतीञ्च 'कृधि' (२)कुरु । किञ्च 'अस्यां' वध्वां 'दश' दश संख्याकान् 'पुत्रान्' 'आधेहि' गर्भी- कुरु । 'पतिं' भर्तारञ्चास्या माम् 'एकादशम्' एकादशानां संख्यानां (३) पूरकम् 'कृधि' कुरु ॥ १३ ॥ इति प्रार्थ्यते । “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्राम्भव । ननान्दरि सम्राज्ञी भव स- म्राज्ञी अधि देवृषु ॥ १४ ॥ अस्यार्थः-हे कन्ये ! त्वं 'श्वशुरे' पत्युर्मम पितृविषये 'सम्राज्ञी' प्रधान सुवासिनी(४) 'भव' । एवं 'श्वश्रां' श्वश्रूविषये 'सम्राज्ञी' उक्तवदर्थिका 'भव' आदरार्थं पुनर्वचनम् । तथा 'ननान्दरि' पत्युर्मम भगिन्याम् । 'सम्राज्ञी भव' एवं 'देवृषु' देवरेषु(५) 'अधि' अधीश्वरी(६)सती 'सम्राज्ञी' भव ॥१४॥ “मम व्रते ते हृदयन्दधातु मम चित्तमनु चित्तन्तेऽस्तु । मम वाचमेकमना जुषस्व वृहस्पतिस्त्व