भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 216, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 216

स्तथाऽश्रुतः ॥” इति । अप्रत्याहरन्ती-प्रत्याहरणं पिष्टस्य पश्चादानयनम्(१) । तदकुर्वती । पिनष्टि-चूर्णीकरोति । ॰“पिष्लृसञ्चूर्णने” (रु० प०) लट् । मध्ये श्नम् । शुङ्गामित्यनुषञ्जनीयम् ॥ ९ ॥ वधूश्च— प्रातःसशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति । १० । प्राक्शिराः—पूर्वशिरस्का । संविशति-स्वपिति । “स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपि” इत्यमरः । शेषमुक्तार्थम् ॥ १० ॥ पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गु- ल्‍याऽभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः पुमानिन्द्र” इत्येतयर्चा ॥ ११ ॥ (मं. ब्रा. १।४।९) अभिसंगृह्य-गृहीत्वा । पिष्टां शुङ्गाम् । नासिकास्रोतसि-नासापुटरन्ध्रे । वध्वाएव । अवनयेत् । क्षिपेत् । (२)“पुमानग्निरि”ति मन्त्रेण । शेषमुक्ता- र्थम् । मन्त्रो यथा— “पुमानग्निः पुमानिन्द्रः पुमान्देवोबृहस्पतिः । पुमाग्ं सं पुत्रं विन्दस्व तम्पुमाननुजायताम् ॥” ॥ ९ ॥ इति । मन्त्रार्थः सुबोध एव । पुमांसमित्यनेन सुपुरुषलक्षणोपेतम् । तमि- त्यनेन च बहुपुत्रसम्पत्तिश्वोक्तवान्मन्त्रदृगिति ॥ ११ ॥ अथ यथार्थम् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ 🌸 ॥ निगद्व्याख्यातमेतत् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”-ख्यायां मुकुन्दशर्म्म सङ्कलितायां द्वि प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ * ॥ ( १ ) केचित्तु-उच्छ्रितशिलापुत्रकेणाहृत्याहृत्य पेषणं कर्त्तव्यम् । अथवा-सकृत्प्र- योगेणैव यथा पेषणं निर्वहति तथा कर्त्तव्यमित्यप्रत्याहरणस्यार्थमाचक्षते । ( २ ) वस्त्रबद्धां पिष्टां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे तद्रसं क्षिपेदिति भव- देवभट्टः । २४ गो० गृ० सू