गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 22, कुल 332 में से
संदर्भ में पढ़ें( १५ ) ३ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंसमन्ववमृश्यान्त- र्हितं नाभिदेशमभिमृशेत् । “पुमांसौ मित्रावरुणावि”त्येतयर्चा ॥ ४ अथ यथार्थम् ॥ ५ अथाऽपरम् ॥ ६ प्रागुदीच्यान्दिशि न्यग्रोधशुङ्गामुभयतः फलमम्लामामकृमिपरिस्सृ- प्तां त्रिःसप्तैर्यैवैर्माषैर्वा परिक्रीयोत्थापयेत् ॥ ७ “यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि, यद्यसि वारुणी वरु- णायत्वा राज्ञे परिक्रीणामि, यद्यसि वसुभ्यो वसुभ्यस्त्वा परि- क्रीणामि, यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परिक्रीणामि, यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि, यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परि- क्रीणामि, यद्यसि विश्वेभ्यो देवेभ्यो विश्वेभ्योदेवेभ्यस्त्वा परिक्रीणामि ॥ ८ “ओषधयः ! सुमनसोभूत्वाऽस्यां वीर्यं समाधत्तेयङ्कर्मकरिष्यतीत्यु” स्थाप्य तृणैः परिधायाऽऽहृत्य नैहायसौ निदध्यात् ॥ ९ दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धूः कुमारी वाऽप्रत्याह- रन्ती पिनष्टि ॥ १० प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु, पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक् शिराः संविशति ॥ ११ यश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या- ऽभिसङ्गृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः पुमानि- न्द्र” इत्येतयर्चा ॥ १२ अथ यथार्थम् ॥ इति द्वि० प्र० षष्ठी कण्डिका ॥ २ ६ ॥ अथ सप्तमी कण्डिका-- १ अथ सीमन्तकरणम्प्रथमगर्भे ॥ २ चतुर्थे मासि षष्ठेऽष्टमे वा ॥ ३ प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु, पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्गुपविशति ॥ ४ पश्चात्पतिरवस्थाय युग्मन्तमौदुम्बरं शलाटुग्रप्समाबध्नाति । “अयमुर्जोवतोवृक्ष” इति ॥ ५ अथ सीमन्तमूर्ध्वन्नयति “भूरि”ति दर्भपिञ्जलीभिरेव प्रथमं, “भुव- रि”ति द्वितीयं, “स्वरि”ति तृतीयम् ॥ ६ अथ वीरतरेण “येनादितेरे” तयर्चा ॥