भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 228, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 228

२ कण्डिका ] गोभिलगृह्यसूत्रे- १६७

विषया शक्तिः । "धीर्धारणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥ जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु- ( मं० ब्रा० १।५।९ ) णावि"-त्येतयर्चा "सदसस्पतिमद्भुतमि"-ति च ॥२१॥ ( छं० ब्रा० २।२।३७ ) जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका- ञ्चने" इत्यमरः । वाशब्दः समुच्चये । क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग- प्रदर्शनार्थम् । जुहोति-जुहुयात् । निःक्षिपे(१)दित्यर्थः । जुहोति पदोपादानमिह कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यसंग्रहे "प्रगल्भोजातकर्म्म- णो"-त्यग्निविशेषकथनमनर्थवत् । अत एवाग्निविशेषापदेशादत्र व्याहृतिहोमो- ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः । शिष्टाचारोऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा- शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार- न्यूनता स्यात् । अतएव न पृथक्करणमिति(२) । ननु सूत्रकारेण पृथक्सूत्र- णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा- त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् । “यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥”


( १ ) जुहोति पदोपादानात्स्वाहाकारान्तामन्त्रयोरवगम्यते । मन्त्रयोर्भेदेनोपदेशाद्भेदे- नैव होमः । अतएव वीरपद्धतौ विनियोगोऽपि पृथगेव दर्शितः । किन्त्वत्र प्रथममन्त्रान्ते स्वाहाकारोनास्तीति चित्रं प्रतिभाति ॥ ( २ ) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कर्म्मणा संस्कारद्वयनिष्पत्ता- वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि” इति नियतकालत्वमन्नप्राशनस्य स्मर्यते नामकरणेन व्यवहितत्वञ्चे ति चेच्छृणु - अस्मच्छाखे खल्विदानीमेवान्नप्राशनमुप- दिश्यते इत्यन्येषामेव नियतकालत्वन्नामकरणेन व्यवहितत्वञ्च, नास्माकम् । नाप्यस्य नि- यतकालत्वमप्यस्ति-यथा च यमः-“ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि । अष्ट- मेवाडथ कर्त्तव्यं यद्वेष्टम्मङ्गलङ्कुले” इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु- रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपद्दिशति । तदेतदपरे न क्षमन्ते। जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम् । न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता। नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चेति प्राङ्नाभिवर्द्धनात्करणमस्य न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादानमविरोधेऽनुमतं कात्याय- नेन । तस्मात्प्रधानहोमदेवतामात्रमेवाध्वर्युभ्योऽग्रहीतव्यम् । पूर्वापरेतिकर्त्तव्यताकलापस्तु स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥