गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 237, कुल 332 में से
संदर्भ में पढ़ें२०६ नामकरणविधिः। [ २ प्रपाठके- इति। अस्यार्थः-असौ-इत्यामन्त्रणे। हे देवदत्त(१)! त्वं ‘कोऽसि?’ इति स्वरूपप्रश्नः। ‘कतमोऽसि?’ इति जातिप्रश्न. (किञ्जातीयोऽसीति) ‘एषोऽसि’-ति प्रत्यञ्जनिर्देशः। ‘अमृतोऽसि’ अमरणधर्म्माऽसि। (अविना- श्यसि) यतोऽतस्त्वां ‘आहस्पत्यम्’ अहस्पतेः-सूर्य्यस्य सम्बन्धिनं (सौरं) ‘मासं’ सङ्क्रान्तिचिह्नितम्। ‘प्रविश’ तत्रात्मानमनुप्रवेशय। प्रथमं मासजीवी भव। ततः क्रमेणामृतत्वमेष्यसीति भावः ॥ १४ ॥ ‘असौ’ हे देवदत्त! इतिपुनरामन्त्रणमादरार्थम्। ‘स’ अहस्पतिः सूर्य्यः। ‘त्वा’ त्वाम् ‘अह्ने’ दिवसाय ‘परिददातु’ अर्पयतु। संवर्द्धनाय। यावच्छता- युष्त्वम्। अत्र मासस्य विशेषणभूतोऽपि अहस्पतिः प्राधान्यात्स इत्यनेन परा- मृश्यते। इति गुणविष्णुभाष्यम् ॥ १५ ॥ इति। त्र्यवसानोऽयमन्त्रः ॥ १३ ॥ तत्र च मन्त्रे— “आहस्पत्यम्मासं प्रविशासावि”-त्यन्ते च मन्त्रस्य घोषवदा- द्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतन्नाम दध्यात् ॥१४॥ इति-एतस्मिन् मन्त्रान्तस्थे चासाविति स्थानद्वयस्थसर्वनाम्नि प्रकृतत्वा- त्कुमारस्य नाम दध्यात् गृह्णीयात्। इत्यर्थः। कीदृशं नामेत्यपेक्षायामाह—घो- षवदादीति। वर्गाणाम्प्रथमद्वितीयाः शषसाश्चाघोषप्रयत्नवन्तस्तद्भिन्नाश्च घोष- वन्तः(२)। तेषाम्मध्ये एकतमोवर्ण आदौ यस्य तद् घोषवदादि। अन्तरन्तः- स्थम्। अन्तःस्था यरलवाः(३)। तेषाम्मध्ये चैकतमोऽपि वर्णोऽन्तर्मध्ये यस्य तत्तथा। दीर्घाभिनिष्ठानान्तम्। दीर्घोद्विमात्रोवर्णः। अभिनिष्ठानोविसर्जनीयम- क्षरम्। “अभिनिष्ठानेऽप्यक्षरमात्रेऽपि स्याद्विसर्जनीयेऽपी”ति मेदिनी। तौ ( तदन्यतरौ ) अन्तौ यस्य तत्तथा। क्वचित्तु—दीर्घाभिनिष्ठानमिति पाठः। दीर्घेणाभिनिष्ठन्यते समाप्यते यन्नाम तदिति तत्रैव व्याख्या चेति। कृतं- ( १ ) एतच्च यथाशास्त्रं कुलक्रमागतनामोपलक्षणम् ॥ ( २ ) तथाच बाह्यप्रयत्नानेकादशोपक्रम्य-शिक्षार्थमवलम्ब्य भट्टोजिदीक्षिताः प्राहुः- “खयांयमाः खय)(क)(पौ विसर्गः शरएवच। एते श्वासानुप्रदानाअघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः”। इत्यादि। तथा च पाणिनीयशिक्षाऽपि- “घोषा वा संवृताः सर्व” इति ॥ ( ३ ) स्पर्शोष्मणोरन्तर्म्मध्ये स्थिता इत्यन्तःस्था इत्युच्यन्ते, एष चाबन्तेऽपि पठ्यते। तथा चपा०शिक्षायाम् “अन्तस्तामिश्र संयुक्तम्”इति। तइमे यरलवाः। तथाच वचना- न्तरमपि-“अदौ” घोषवदक्षरान्तरस्थवान्मध्यं पुनः स्थापयेदन्ते दीर्घविसर्जनीयसहितं नाम प्रयत्नात्कृतम् ॥ इति ॥