भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 24, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 24

लि पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ७ "यददश्चन्द्रमसो"ति सकृद्यजुषा द्विस्तूष्णीमुत्सृज्य यथाऽर्थम् ॥ ( अत ऊर्ध्वं ज्योत्स्नेष्वेतत्कर्मासंवत्सरम् ) ८ जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेयकरणम् ॥ ९ अथयस्तत्करिष्यन्भवति पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्मुखउपविशति ॥ १० अथमाता शुचिना वसनेन कुमारमारच्छाद्य दक्षिणत उदञ्चं कर्त्रे प्रय- च्छत्युदक्शिरसम् ॥ ११ अनुपृष्ठं परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु ॥ १२ अथ जुहोति प्रजापतये तिथये नक्षत्रे देवताया इति ॥ १३ तस्य मुख्यान्प्राणांन्संमृशन् "कोऽसि कतमोऽसी" त्येतं मन्त्रं जपति । १४ "माहस्पत्यं मासं प्रविशासावि"त्यन्ते च मन्त्रस्य घोषवदाद्यन्तर- न्तः स्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यात् । १५ एतदतद्धितम् ॥ १६ अयुग् दान्तं स्त्रीणाम् ॥ १७ मात्रे चैव प्रथमं नामधेयमाख्याय यथार्थम् ॥ १८ गौर्दक्षिणा ॥ १९ कुमारस्य मासि मासि संवत्सरे, सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ धावापृथिवी विश्वान्देवाँश्च यजेत ॥ २० दैवतमिष्ट्वा तिथिनक्षत्रञ्च यजेत ॥ २१ विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत् । यदा वा पिता म इति विद्यात् । उपेतस्य वा "ऽङ्गादङ्गात् सँ- स्रवसी"ति ॥ २२ "पशूनान्त्वा हिङ्कारेणाभिजिघ्रामी"त्यभिजिघ्रथ यथार्थम् ॥ २३ एवमेवापरेषाम् ॥ २४ यथा ज्येष्ठयँथोपलम्भं वा ॥ २५ क्रियास्तूष्णीं मूर्धन्यभिजिघ्रणं मूर्धन्यभिजिघ्रणम् ॥ इति द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ अथ-नवमी-कण्डिका- १ अथातस्तृतीये वर्षे चूडाकरणम् ॥ २ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति ॥ ३ तत्रैतान्युपक्लृप्तानि भवन्ति । ४ एकविँशतिर्दर्भपिञ्जल्य उष्णोदककँस औडुम्बरः क्षुर आदर्शो ३