गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 249, कुल 332 में से
संदर्भ में पढ़ेंतीत्यर्थः ॥ २३ ॥ उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥ अग्नेः । उदङ्-उत्तरतः । उत्सृप्य-गत्वा । कुशलीकारयन्ति-नापितेन मुण्डयन्ति । "कुमारमिति" शेषः । कर्त्तुरनियमः । कुशलभद्रशब्दयोः पर्या- येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "शौरन्तु भद्रा- करणं मुण्डनं वपनन्त्रिषु" इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा- "वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूडाः कुण्डपायिनः" इत्यादि । कुले यथा-"भद्रा(१)- दित्यानां सूर्यायतनसन्निधौ" इति । कल्पे यथा-"सशिखं कौथुमादीनां वपनं समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्त्तनात्प्राङ्मुण्डनं सशिखमेवेति । तथाच समावर्त्तनान्ते-"केशश्मश्रुलोमनखान्वापयतिशिखा वर्ज्जम्" ( ३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि- "सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम् । आशरीरविमोक्षाय ब्रह्मचर्य्यञ्च चेद्भवेत् ॥" इति भाष्यकृतः । आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि शिखाधर्त्तव्येत्यर्थः ॥ २४ ॥ आनडुहे गोमये केशान्कृत्वाऽरण्यं हृत्वा(२)निखनन्ति ॥२५॥ पूर्वमासादिते आनडुहे गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं हृत्वा-नीत्वा तत्रैव निखनन्ति । बहुवचनादनियतः कर्त्ता ॥ २५ ॥ स्तम्बे हैके निदधति ॥ २६ ॥ हेत्यैतिह्यार्थोनिपातः । एके किलाचार्याः । व्रीह्यादिस्तम्बे(३) तान् केशान्निखनन्ति ॥ २६ ॥ यथार्थम् ॥ २७ ॥ तन्त्रसमापनङ्कर्त्तव्यमित्यर्थः । अपरे तु मन्यन्ते-यथार्थमिति-यस्य येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? त्र्यायुषमित्यादिना मूर्द्ध- परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कर्मशेषं समापयेदिति चन्द्रकान्तः ॥ २६ ॥ गौर्दक्षिणा ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य नवमी कण्डिका ॥३॥९॥ॐ॥ ( १ ) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥ ( २ ) अरण्यं ( ण्य ) गत्वा इति पाठान्तरम् ॥ ( ३ ) "अप्रकाण्डे स्तम्बगुल्माविति" ह्यमरः । प्रकाण्डस्त्वरोर्मूलस्कन्धयोरन्तरम् । तथाचामरः "अस्त्री प्रकाण्डं स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इति । "स्तम्वागु- च्छस्तृणादिनः" इति च ॥