गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 277, कुल 332 में से
संदर्भ में पढ़ें२४६ उपनयनविधिः। [ २ प्रपाठके- अवसिता प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते-- यथार्थम् ॥ ४९ ॥ उपनयनकर्म्मणः परिसमाप्तिरनेनोच्यते ॥ ४९ ॥ गौर्दक्षिणा ॥ ५० ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि·प्र·स्य दशमी कण्डिका ॥ २ ॥१०॥ ❀ ॥ उपनयनकर्म्मण एव। नोपनयनतन्त्रस्य। उपनयनकर्म्मणोऽनन्तरमा-“चा- र्याय वरोदक्षिणा” इति गृह्यान्तरसूत्रात्(१) “गौर्वरोब्राह्मणस्य”-( ) ति च वक्ष्यति। (२)मुरारिमिश्रास्तु-यथार्थङ्गौर्दक्षिणेत्येकमेव सूत्रं लिखन्ति- स्म। व्याचक्षत च-इयञ्चोपनयनकर्म्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा- र्थशब्दस्यानन्तरोक्तकर्म्मशेषसमापनार्थत्वात्। “कर्म्मशेषसमाप्तौ गौराचार्याय- देया ब्रह्मणे पूर्णपात्रादीनी”-ति गृह्यान्तरवचनाच्च। नारायण-शूलपाणि-प्रभृ- तयोऽप्येवम्। इति। अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकः पठ्यतेऽन्यत्र(३) ॥ ५० ॥ इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्यामृदुलाख्यायां मुकुन्दशर्म्मकृतसङ्कलितायां द्वि·प्र·स्य दशमी कण्डिका। प्रपाठकश्चायं समाप्तः ॥ २ ॥ १० ॥ ( इत्युपनयनम् ) श्रेयोवेतिस्थाने ऊह इहाभिहितः। एवमुक्तसूत्रादष्टसूत्री। ततः पुनः “यद्युवा ( १।८।३ ) इत्यारभ्य “महाव्याहृतिभिराज्येनाभिजुहुयात्” ( १।८।१९ ) इत्यन्तम्। पुनः “हुत्वैतत्” ( १।८।१९ ) इत्यादिसूत्रद्वयं सावित्रग्रहहोमसूत्रतया मुरारिमिश्रैर्योजितम्। एतदन्ते च ततस्तन्त्रसमापनम्। व्रतान्तविहितस्याप्यस्य व्रताशक्तस्योपनयनदिन एव समावर्त्तनपक्षे तत्पूर्व्वक्षुरणं, समावर्त्तनपूर्व्वकालविहितत्वादिति द्रष्टव्यम्। पद्धतिरप्येवमित्युक्तम् ॥ ( १) अत्र चन्द्रकान्तभाष्ये-तस्माच्च गृह्यान्तराद्दक्षिणेयमाचार्याय दातव्या। त- स्माद्ब्रह्मचारिणे भैक्षदानान्तरमेवाचार्यः कर्मशेषं समापयेदिति भट्टनारायणाद्यनुमतं समीचीनमवोचाम। समिदाधानस्य प्रधानकर्म्मान्तरतयोपनयनकर्म्मानङ्गत्वत्। अहः शेषस्थितेस्तादर्थ्याच्चेत्युक्तम् ॥ ( २ ) तथाचोक्तम् “गौर्विशिष्टतमा विप्रेर्वेदेष्वपि निगद्यते। न ततोऽन्यद्वरं यस्मा- त्तस्माद्गौर्वरमुच्यते” इति। ( ३ ) चन्द्रकान्तभाष्यादौ। तत्र द्वितीयस्यार्थान्तरयोजना च क्रियते। अन्ते च- प्सन्तु सावित्रचरोः कर्म्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्वेव योजना समीचीनेति प्रतिपद्यामहे। अतिक्रान्तसम्बन्धश्चाचार्यानुमत इति चेति ततउपर- तमस्माभिः।