गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 298, कुल 332 में से
संदर्भ में पढ़ें१० • कण्डिका ] गोभिलगृह्यसूत्रे- २४७ ततस्ताभ्योऽञ्जलि(१) गृहीत्वाऽर्हणीयः- “सव्यं पादमवनेनिजे” इतिसव्यंपादं प्रक्षालयेत् । ( मं० ब्रा० २।८।६ ) “दक्षिणं पादमवनेनिजे” इति दक्षिणं पादम्प्रक्षालयेत् ॥ १० ॥ ( मं० ब्रा० २।८।७ ) सव्यम्-वामम् । “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्”त्यमरः । प्रक्षालयेदिति क्रियाभ्यामः निर्देशक्रमेणैव पादप्रक्षालनार्थः । यथा चान्यत्रा- पि स्मर्यते- “पादं प्रक्षालयेद्विप्रोदक्षिण प्रथमं सदा । शूद्रस्तु वामं प्रथमं, सामवेदी, तथा वधूः ॥” इति । “सामगः क्षालयेत्सव्यमपमन्यश्च दक्षिणम् ॥” इति चैवमादि । पूर्वत्र विप्रइति क्षत्रियवैश्ययोरप्युपलक्षणम् । एवमपरत्रान्येति ॥ “ते- नोदकेने”-तिशेषः । मन्त्रौ यथा- “सव्यं पादमवनेनिजेऽस्मिन्द्राष्ट्रे श्रियन्दधे” ॥ ६ ॥ इति । “दक्षिणं पादमवनेनिजेऽस्मिन्द्राष्ट्रे श्रियमावेशयामि ॥ ७ ॥ इतिच । अनयोरर्थः । अहं ‘सव्यं’ वामं ‘पादं’ चरणम् । ‘अवनेनिजे’ शोधयामि(२) । (प्रक्षालयामि) ‘अस्मिन्’ ‘राष्ट्रे’(३) देशे (यत्राहंवर्त्त) ‘श्रियं’ लक्ष्मीं ‘दधे’ स्थापयामि ॥ ६ ॥ इति ॥ ‘आवेशयामि’ आदधामि । ( स्थाप- यामि ॥ ७ ॥ इति ॥ १० ॥ ततःपुनरुदकाञ्जलिङ्गृहीत्वा- “पूर्वमन्य-मपरमन्य-मि”त्युभौ शेषेण ॥ ११ ॥ ( मं० ब्रा० २।८।८ ) शेषेण-अवशिष्टोदकेन । उभौ-पादौ । संहतीकृत्य(४) । पूर्वमन्यमि”- तिमन्त्रेण । प्रक्षालयेदित्यनुवर्त्तते । अर्हणीयएव । मन्त्रस्तु- “पूर्वमन्य-मपरमन्य-मुभौ पादाववनेनिजे राष्ट्रस्याह्याढ्यर्चाश्रभयस्यावरुद्धये”८ इति । अस्यार्थः । अह ‘पूर्व’ प्रथमम् । ‘अन्यं’ सव्यम् ‘अपरं’ पश्चात् ( १ ) अञ्जयर्वाच्छद्मसमुदकम् ॥ ( २ ) “णिजिरशौचपोषणयोः” ( जु०उ० ) लट् । ( ३ ) “राष्ट्रं स्योदुपवसने” इतिमेदिनी । “देशविषयौ तूपवर्त्तनम्”तिचामरः ॥ ( ४ ) पूर्वमन्यमित्युभौ शेषेणेति वक्तव्ये गुरुकरणेनैतत्प्रज्ञाप्यते । मन्त्रे पूर्वशब्दोऽ- ग्रिमवचनः । अपरशब्दश्चपश्चाद्वचनः । तथाचाग्रिमप्रक्षालितमन्यं सव्यं, पश्चात्प्रक्षालित- मन्यम्दक्षिणमित्युभौ पादौ युगपदवनेनिजे प्रक्षालयामीति मन्त्रार्थपर्यवसानात् । वीरपद्ध- तावप्येवमेव पठ्यते ॥