भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 312, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 312

३ कण्डिका ] गोभिलगृह्यसूत्रे- २८१ जपोऽयं समिधमेकाङ्कुशफलपुष्पसहितां गृहीत्वाकार्यः । जपान्ते च कुशमैशा- न्यां परित्यज्य फलपुष्पं ब्रह्मणे निवेद्य समिधन्तूष्णीमग्नौ क्षिपेत् । तथैवा- चारात् । पद्धतिकृतोऽप्येवम् ॥ अङ्गिराः- “वैरूपाक्षंजपेन्मन्त्रं प्रपदंञ्चैव यज्ञवित्” । इति । यज्ञवित्पदन्तदाचारलाभाय । इदमपि समिदादिग्रहणे प्रमाणमिति द्रष्टव्यम् ॥ ८ ॥ अथ यज्ञवास्त्वन्ते पूर्णहोमः ( १।८।२६ ) तत्रशौनकः- “अथ पूर्णाहुतिन्दद्याद्गन्धपुष्पफलान्विताम् । साक्षतामूर्ध्वकायश्च समपाच्छक्रदिङ्मुखः ॥” इति । अथ-यज्ञवास्तन्ते ऊर्ध्वकायः । तिष्ठन् । कात्यायनः । “ततः पूर्णाहुतिङ्कृत्वा सर्वतन्त्रसमन्विताम् । गान्द्याद्यङ्गेज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ॥ इति । ततो-यज्ञवास्त्वन्ते । पूर्णाहुतिङ्कृत्वेत्यन्वयः । वस्त्रदक्षिणाच वि- शेषोपदेशस्थलएव । अन्यथा पूर्णपात्रादिकमेव । “ब्रह्मणे दक्षिणादेया या यत्रपरिकीर्त्तिते”ति वचनात् । गोभिलीये- “पूर्णाहुतिञ्च “मूर्द्धानन्दिव” इत्यभिपातयेत्” इति । पद्धतौ तु-“पूर्ण- होमं यशसे जुहोमी”ति मन्त्रेणायं पूर्णहोमोऽक्तः । मन्त्रलिङ्गात्तदप्यविरुद्धमे- वेतिदिक् ॥ ततो “वसुभ्यः स्वाहे”-त्यविच्छिन्नामाज्यधारामग्नौ दद्यात् । तत्रगृह्यासङ्ग्रहकारः- “यज्ञवास्तुक्रियाङ्गत्वाद् विधिदृष्टेन कर्म्मणा । आज्यधारामविच्छिन्नाम्पातयेदनलोपरि ॥” इति । ततःस्रुवलग्नसघृतभस्मना त्र्यायुषकरणम् । तत्रच- “ततोऽनामिकया कुर्य्याद्विन्दुं सघृतभस्मना । हृद्यंसयोर्ललाटे च त्र्यायुषेतिपदैः क्रमात् ॥” इतिवचनं प्रमाणयंन्ति शिष्टाः । ततः-वसुभ्यः स्वाहेति होमानन्तरम् ॥ एतत्प्रकारउक्तोऽधस्तात्समन्त्रकः ( २।९।२१ ) ॥ इति श्रीः ॥ ३६ गो० गृ० सू०