भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 314, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 314

गोभिल-श्राद्धकल्पे— २८३ आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥” इति ॥ कर्मादिषु-कर्म्मणामादिषु । सर्वेषु-श्राद्धवत्सु । “मातॄः सम्पूजयित्वा तु पितृभ्यः सुसमाहितः । वृद्धिश्राद्धन्ततः कुर्यात्सदाऽभ्युदयकारकम्(१) ॥” इत्यादिवचनेषु सर्वत्राभ्युदयिकसहभावेनैतद्विधानात्तदेकमूलकत्वकल्पना- लाघवात् । “यत्र यत्र भवेच्छ्राद्धन्तत्र तत्रैव मातरः” इति कात्यायनोक्तेश्च । तेन यत्राभ्युदयिकश्राद्धन्न विहितं, यथा निष्क्रमणा- न्नप्राशनयोस्तत्रैतदपि न भवति । सगणाधिपाः । गणेशपूर्विकाः । “पूर्वं(२)वि- नायकः पूज्योमातरस्तदनन्तरम्” ॥ इति वचनात् । मातरस्तु-यथाह बह्व

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 314, कुल 332 में से · BharatKosha