गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 318, कुल 332 में से
संदर्भ में पढ़ेंगोभिल-श्राद्धकल्पे— २८७
“अतः परं प्रवक्ष्यामि विशेष इह योभवेत् । प्रातरामन्त्रितान्विप्रान्युग्मानुभयतः स्थितान् । उपवेश्य कुशान्दद्यादृजुनैव हि पाणिना ॥” इति । प्रातरिति । तथाचात्र ( वृद्धिश्राद्धे ) श्राद्धदिने प्रातरेवामन्त्रणं, न तु विकृतिन्यायप्राप्त-पाक्षिक-पूर्वदिने । वैकृतविशेषविधेरधिकबलत्वात् । युग्मानिति । तथा च चतुर्विंशतिरत्रश्राद्धिन इति मुख्यः कल्पः । ऋजुनैवेति । पित्र्यतीर्थनिषेधः ॥ तथा— “निपातनं हि सव्यस्य जानुनो न विधीयते क्वचित् । सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ॥” इति । सव्यस्य–वामस्य । देववत्–दक्षिणजानुपातेन । प्राङ्मुखोपवेशनेन च ॥ तथा— “नात्रापसव्यकरणं न पित्र्यन्तीर्थमिष्यते । पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ॥” इति । पित्र्यतीर्थम्-तर्जन्यङ्गुष्ठयोर्मध्यरूपम् । दैवेन-अङ्गुल्यग्ररूपदेवतीर्थेन । अत्रैतदनन्तरं “सव्येन सोपवीतेन ऋजुदर्भैश्च धीमता । पितॄणां रूपमास्थाय देवाह्यन्नं समश्नते ॥ तस्मात्सव्येन दातव्यं वृद्धिश्राद्धेषु नित्यशः” । इति शुभ- कर्म्मनिर्णये मुरारिमिश्राः प्राहुः ॥ केचिदत्रभूस्वाम्यन्नदानेऽपि दैवविधिमिच्छ- न्ति । तन्न । तस्याभ्युदयिकबहिर्भूतत्वेन दैवविधौ प्रमाणाभावात् । तस्मात्पि- त्र्यविधिनैव तत्कर्त्तव्यम् । आभ्युदयिकबहिर्भावादेव तत्रामिष-(मध्वादि-)प्रयोगोऽपिन निषिद्धः ॥ तथा— “ज्येष्ठोत्तरकरान्युग्मान्कराग्राप्रपवित्रकान् । कृत्वाऽर्घ्यं संप्रदातव्यं नैकैकस्यात्र दीयते ॥” इति । ज्येष्ठोत्तरकरान्-पूर्वोपवेशितोज्येष्ठस्तदुत्तरकरान्-तत्प्रधानकरान् । ज्येष्ठ- स्योत्तरे उपरि कारा येषान्तादृशानिति वा । युग्मब्राह्मणपक्षे योयदपेक्षया पश्चादुप- पवेशितस्तद्दक्षिणकरोपरि पूर्वोपवेशितदक्षिणकरो यथाभवति तथाऽवस्थिता- निति यावत् । कराग्राप्रपवित्रकान्-कराग्रेऽग्रं यस्य तथाभूतं पवित्रं येषान्ता- दृशान् । कराग्रेऽप्रपवित्रकं पवित्राग्रं येषामिति गौडीयव्याख्यानन्तु न युक्तम् । अग्रपदस्य परनिपातापत्तेः । आर्षत्वानुसरणन्तुसत्याङ्गत्यायुक्तम् । नैकैक- स्येति । तथा च युग्मब्राह्मणपक्षे मिलितहस्त एवार्घ्यं देयम् । तथा— “मधुमध्विति यस्तत्र त्रिज॑पोऽशितुमिच्छताम् । गायत्र्यनन्तरं, सोऽत्र मधुमन्त्रविवर्जितः ॥” इति ॥