गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 32, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 32
- श्रीः * अथ- गोभिलगृह्यसूत्रे- श्रीमदाद्यापदाम्भोजद्वन्द्वन्नत्वा सताम्मुदे । गोभिलीये गृह्यसूत्रे सद्याख्याम्मृदुलाम्ब्रुवे ॥ १ ॥ महाराजाऽधिराजश्री५रमेश्वरसुपालिता । नित्यं विजयते ह्येषा मिथिला कर्म्मठाऽऽवृता ॥ २ ॥ तत्र ग्रामे हरिपुरे हाटीतप्पान्तरेऽभवम् । श्रीमत्कृष्णपदाम्भोजद्वन्द्वेन्दिन्दिरमानसात् ॥ ३ ॥ नन्दलालाद्योगमायादेव्याङ्कुरमहान्वये । गोभिलः श्रीमुकुन्दोऽहम्प्रार्थितोऽकरवं पुरः ॥ ४ ॥ प्रकाशङ्कर्म्मकाण्डस्य मन्त्रार्थानान्निजैर्मुहुः । अन्तेवसद्भिः सुमना इमाङ्कुर्वेऽत्र (१)तन्मुदे ॥ ५ ॥ सूत्रोपन्यस्तमन्त्रार्थाश्छायया विवृता मया । अत्र, तत्रावशिष्टास्तु(२) कर्म्मकाण्डप्रदीपके ॥ ६ ॥ अस्य पूर्वैः कृता व्याख्या नैकधा याऽस्फुटाशया । ततोऽपि प्रामाणिकार्था उद्धृताः पूर्वसम्मताः ॥ ७ ॥ अथ तत्रभवान्भगवान्सामगाचार्य्यः ( पारस्करापराभिधानस्य कात्याय- नस्य पिता ) गोभिलः कृतसमावर्त्तनानाङ्कौथुमशाखिनाङ्कर्म्मकाण्डं यथाश्रुति- स्मृति दर्शयञ्छास्त्रमिदमारेभे । यस्येदमादिमं सूत्रम्- अथातोगृह्या-कर्म्माण्युपदेक्ष्यामः ॥ १ ॥ इति । अत्राथशब्दोग्रन्थारम्भार्थद्योतकोनिपात इति कश्चित् । आनन्तर्य्य- वचनोमङ्गलप्रयोजन(३)कश्चेति राद्धान्तिकाः ॥ ( १ ) गोभिलीये गृह्यसूत्रे तेषामन्तेवसतां श्रौतस्मार्त्त-कर्म्मकाण्ड-परीक्षादित्सूना- न्तदर्थमधिजिगांसमानानां निरवशेषेण सताञ्चान्येषाङ्कर्म्मकाण्डतत्त्वबुभुत्सूनां मुद इत्युक्तार्थस्यैव विशदीकृतोऽर्थः पुनरुपनिबद्धः । ( २ ) मन्त्रा-अर्था-स्तद्विशेषाश्च । तत्र-प्रसिद्धे कर्म्मकाण्डमन्त्रार्थप्रदीपे मयैव वि- वृता इत्यन्वितोऽर्थः । ( ३ ) यथा यात्राकाले दधि-मत्स्यादि-दर्शनम्मङ्गलं, यथा वा मृदङ्गादिध्वनिश्रव- णम् । तथैतदुच्चारणस्मरणे महतेऽभ्युदयाय ग्रन्थारम्भेऽवकल्पेत इति भावः । अनुपदमुप- दर्शयिष्यमाणस्मृतौ माङ्गलिकावित्यस्य मङ्गलप्रयोजनकावित्यर्थ (पा० ५।१।१०९) ठका साधनात् । एतद्द्योतकत्ववाचकत्वे उभावपि पक्षौ निपातेषु व्यवस्थितावित्येवमवधृतम् ।