भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 321, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 321

२९० आभ्युदयिक(नान्दी)श्राद्धविधिः। [ ५ खण्डम्- एवम्मत्स्यपुराणोक्तेऽपि। तदित्थञ्छन्दोगपरिशिष्टवचनैर्व्याख्यातप्राये गोभिलीयसूत्रनिचये विशेषतो- ऽवशिष्टपदानां व्याख्या प्रस्तूयते-तथा चाश्वलायनः “आभ्युदयिके युग्मा ब्राह्म- णाः। समूला दर्भाः प्राङ्मुखेभ्य उदङ्मुखोदग्द्यादुदङ्मुखेभ्यः प्राङ्मुखोवा। द्वौ दर्भौ पवित्रे। पवित्राणि चत्वारि। शन्नोदेवीत्यनुमन्त्रितास्वप्सु यवानानवपति- “यवोऽसि पितृदेवत्यो गोसवोदेवनिर्म्मितः। प्रत्नमद्भिः पृक्तःपुष्ट्या नान्दीमुखान्पितृँल्लोकान्प्रीणाहि नः स्वाहे” ॥ ति। नन्दीमुखाः पितरः प्रीयन्तामित्यपाङ्ग्रहणं विसर्जनञ्च”ति। अत्र- समूलाइति विशेषविधानादत्र (आभ्युदयिके) पिण्डास्तरणेऽपि समूलाएव। तत्कारिकाऽपि- “तिलोऽसीतिपदस्थाने यवोऽसीतिपदं वदेत्। स्वधयेतिपदस्थाने पुष्ट्याशब्दं वदेदिह॥ पित्निति पदात्पूर्वं वदेन्नान्दीमुखानि”ति। अत्र “पित्नितिपदस्थाने पठेन्नान्दीमुखानिति” इति प्राचांसम्मतः पाठः। यवैस्तिलार्थइत्यनेन प्रकृत्युक्तस्य तिलादेर्विकृत्युक्तेन यवादिना बाधः। “शरमयं बर्हिर्भवति” इतिविकृत्युक्तेन शरेण प्रकृत्युक्तानां बर्हिषां बाधवत्। दधीति-मधुनोऽप्युपलक्षणम्। तथा च ब्रह्मपुराणम्- “शाल्यन्नं दधिमध्वक्तं बदराणि यवाँस्तथा। मिश्रीकृत्य च चत्वारि पिण्डान् श्रीफलसन्निभान्॥ दद्यान्नान्दीमुखेभ्यस्तु पितृभ्योविधिपूर्वकम्। अर्घ्यम्पुष्पञ्चधूपञ्च प्रशस्तमनुलेपनम्॥ वासश्चाप्यहतन्तत्र देयञ्चसदृशं समम्। द्राक्षामलकमूलानि यवांश्र्च विनिवेदयेत्॥ तान्येव (१)दक्षिणाञ्चैव दद्याद्विप्रेषु सर्वदा॥” इति। दधिमधुनोम्मिलितयोरुपादानान्नतुष्टिसिद्धिः। नान्दीमुखाः पितर इति। तेनात्रमात्रादीनान्नवानान्मपि नान्दीमुखत्वविशिष्टानान्देवतत्वम्। “दद्या- न्नान्दीमुखेभ्यस्त्वि”-त्यादिवचनात्। तेनसर्वत्र त्यागवाक्ये नान्दीमुखपदप्र- योगः कार्यः। आवाहनादौ तु विशेषोपदेशादेव तत्प्रयोगः। यत्तु-“नान्दीमुखान्पितृगणानभ्यर्च्यप्रयतो गृही”-त्यादिवचनात्तेन रूपेण देवतात्वावगमात्सर्वत्र मन्त्रादावपि नान्दीमुखपद प्रक्षेप्यमिति। तन्न। एवमप्यर्चा- प्रयोजकवाक्य एवैतत्प्रयोगलाभात्। अतएव “तिलोऽसी”-तिमन्त्रे “पितृनि- ृ ( १ ) द्राक्षामलकमूलानि। फलमूले एवात्र दक्षिणा सङ्कल्पवाक्ये तथैव प्राचां वीरेश्वरादीनाम्पद्धतिकृतामुल्लेखोऽपि॥