गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 70, कुल 332 में से
संदर्भ में पढ़ें१ कण्डिका ] गोभिलगृह्यसूत्रे- ३६ तत्राह-कंसेन। कांस्य(१)मयभाजनविशेषेण। चरुस्थाल्या चरुर्यत्रस्थाप्यते सा चरुस्थाली तया- “तिर्यगूर्ध्वं समिन्मात्री दृढा नातिबृहन्मुखी। मृन्मय्यौदुम्बरी वापि चरुस्थाली प्रशस्यते॥ इति कर्म्मप्रदीपोक्तलक्षणा। तिर्यगिति। विशालतोन्चैस्त्वाभ्यां प्रादेशप्र- माणा “प्रादेशमात्राः समिध” इत्यन्यत्राम्नानात्। मृन्मयी-मृदा निर्मिता। हस्तघटिता। न तु कुलालचक्रनिर्मितेत्यप्याह-स एव -- “कुलालचक्रघटितमासुरं मृन्मयंभवेत्। तदेव हस्तघटितं स्थाल्यादि खलु दैवतम्॥” इति॥ औदुम्बरी-ताम्रमयी। “औदुम्बरंभवेत्ताम्रे फलादौ यज्ञशाखिनः” इत्य- मयः। स्रुवेणवै वा। अत्र विषमशिष्ट(२)त्वादेवमवगम्यते-शक्त्यपेक्षयाऽत्र विकल्पो नत्वभिधानक्रमापेक्ष्येति। स्रुवोनामाऽरत्निमात्रः खादिरादिर्यज्ञकाष्ठ- मयो होमपात्रमुच्यते। तथाच कर्मप्रदीपः- “खादिरोवाऽथ पार्णोवा द्विवितस्तिः स्रुवः स्मृतः। स्रुग्बाहुमात्री विज्ञेया वृत्तस्तु प्रग्रहस्तयोः॥ स्रुवाग्रे घ्राणवत्खातं द्यङ्गुलपरिमण्डलम्। स्रुचः शराववत्खातं सनिर्व्वांहं षडङ्गुलम्॥ प्राक् शस्तेषां कुशौः कार्यः सम्प्रमार्गोऽजुहूवता। प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा॥” इति। पार्णः- पालाशः। “पलाशः किंशुकः पर्ण”इत्यमरः। तस्येदमित्यर्थे त्राण्। प्रगृह्यतेऽत्रेति प्रग्रहोदण्डः। स च तयोः स्रुवस्स्रुचोर्वृत्तोवर्त्तुलः कार्यः। घ्राण- वत्-नासास्रोतोवत्। तेन द्विपुष्करत्वमायाति। तथा चोक्तम्-“स्रुवाग्रे खननं कुर्यात्पङ्के मृगपदाकृति।” इति। अत्र विशेषमाह-श्रीदेवभाष्ये-आपस्तम्बः- “वैकङ्कत्यग्निहोत्रहवणी बाहुमात्री अरत्निमात्री वा प्रसृताकृतिरि”ति। वैक- ङ्कती-स्रुवावृक्ष-( गम्भारी-) सम्भवा। “वैकङ्कतः स्रुवावृक्षः” इत्यमरः॥ अ- ग्निहोत्रहवणी-स्रुक्। स्रुवश्च। “आकुञ्चितपाण्याकृतिर्हस्ताकृतिः स्रुव” (१) व्रीहियवयोः पाण्याहुतेरुक्तत्वात्॥ (२) स्रुवोह्यत्रोत्पत्तिशिष्टः। अन्यौ चोत्पन्नशिष्टौ। अयमर्थः। स्रुवेण वा जुहुयात् वै इति प्रसिद्धार्थकोनिपातः स्रुवस्यैवं विषेषु होमेषु प्रसिद्धिन्द्योतयति। कात्यायनोऽ- प्याह-“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः” इति। तस्मात्स्रुवेणैवेति प्रथमः क- ल्पः। तदभावे कंसेन वा चरुस्थाल्यावेति। अभावविकल्पोऽयं तुल्यबलः। दधिपय आ- दावपि पूर्वपूर्वाभावे उत्तरत्तरोविधीयत इति।