गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 72, कुल 332 में से
संदर्भ में पढ़ेंअनादेशे द्रव्यस्य, आज्यं(१) गव्यं घृतमेव द्रव्यम् । जुहोतिषु--होमक्रि- यासु । “इक्श्तिपौ धातुनिर्देशे”(२) (पा० ३।३।१०८ वा०) इति स्मरणात् । धातुपदमंत्र तदर्थस्यापि बोधकम् । शब्दार्थयोरभेदात् । अनादेशे—इत्युत्तरार्द्धे- ऽप्यनुषज्यते । मन्त्रस्यानादेशे-प्रजापतिस्तद्देवत्योमन्त्रः “भूर्भुवःस्वरि”ति । स एव च देवता । तथाच मनुः-- “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥” इति ॥ स्थितिः शास्त्रमर्यादा । तदेतद्द्वयं-सायम् “अग्नये च प्रजापतये च सायं जुहोती”ति । “तस्मात् प्राजापत्यां मनसा जुहोति मनोहि प्रजापतिः” इति च ब्राह्मणम् । “अग्नये स्वाहा प्रजापतये स्वाहा” इति सायंम । “सूर्याय स्वाहा प्रजापतये च स्वाहे”ति च प्रातः” । इति च गृह्यान्तरम् । अत्रचन्द्रकान्तभा- ष्यम्--“ताञ्चेमां मध्य एवाग्नेर्जुहुयान्न तु दध्यादिहोमवच्छेदनेरपचयाशङ्कां कुर्यात् । इत्येवकारार्थः । स्तूष्णीमेवेत्येवकारोवाग्व्यापारप्रातषेधनियमयत्युत्त- रस्यामाहुतौ । न खलु वगूव्यापारप्रतिषेधनियमेऽपि मनसोव्यापारः प्रतिषिद्धो भवति । तस्मात्प्रजापतये स्वाहेत्ययं मन्त्रोमनसैवोच्चारणीयोहोमार्थम्”ति ॥९॥ अथ प्रातः सूर्याय स्वाहेति पूर्वा, तूष्णीमेवोत्तराम् , मध्ये चैवाप- राजितायाञ्चैव दिशि ॥ १० ॥ अथेति पूर्वप्रकृतार्थम् । येनैव हविषा सायं होमः कृतस्तेनैव प्रातरपि होतव्यमन्यत्र प्रतिनिधेरित्यवोचाम । ( १।१।२३ ) प्रातर्यथोक्तलक्षणे । अप- राजितायामैशान्याम् ॥ १० ॥ समिधमाधायानुपर्युक्ष्य तथैवोदकाञ्जलीनप्रसिञ्चे-“दन्व- मंस्था” इति मन्त्रविशेषः ॥ ११ ॥ समिधम्मन्त्रदैवतवर्जितां प्रकृतहामापवर्गविहितामिन्धनार्थमाधाय निःक्षि- प्यानौ अनुपर्युक्ष्य अग्निम् । “देवसवितरि”--त्यादिना पूर्व--(१।३।४)--प्रकृ- तेन मन्त्रेणेत्यर्थः । तथैव--तेनैव प्रकारेण ( पूर्वोक्तयैवाऽऽवृता ) उदकाञ्ज-
( १ ) आज्यलक्षणमाह-कात्यायनः ( गृ० सं० ) “अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुभिरपि यत्पूतन्तदाज्यमितरद्घृतम् ॥ घृतं वा यदि वा तैलं पयोवा यदि- यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दोविधीयते ॥ आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते । अनधिश्रयणांदन्तः शेषाणां श्रपणं स्मृतम् ॥ यथा सीमन्तिनो नारी पूर्वगर्भेण संस्कृता । एवमाज्यस्यसंस्कारः संस्कारे विधिनोदितः ॥” इति । ( २ ) “आहौ प्रभूतादिभ्यः” “पृच्छतौ. सुस्नातादिभ्यः” ( पा० ४।४।३ वा० ) इत्यादौ तथा दर्शनात् ॥ ६ गो० गृ० सू०