गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 96, कुल 332 में से
संदर्भ में पढ़ें४ कण्डिका ] गोभिलगृह्यसूत्रे- ६५ उभयतः परिषेक इत्येवमादिकया रीत्या आसस्यं तन्नामकं बलिं स्वयमेव हरेत् न पुनःप्रवासादावप्यन्येन तं कारयेत् । उक्तञ्चायमर्थः “स्वयमेव हरेत्कामान्” इत्यादिगृह्यान्तरेण । कोऽयमासस्योनाम बलिः कस्मै च हर्तव्यः ? इत्यत्राह- यवेभ्य इति । अत्र चतुर्थ्या त्यागोद्देश्यत्वलक्षणं देवतात्वं यवानाम्भिधीयते । यथाचोक्तम्- “तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन चेष्यते । देवतासङ्गतिस्तत्र दुर्बलन्तु परं परम् ॥” इति । तस्माद्यवदैवतोऽयं बलिः “यवेभ्योनमः” इति प्रयोक्तव्यः । बलि- कालमाह-अधि उपरि । अर्थाद्यवोत्पत्तेरेव । अवधिकालमाह आब्रीहिभ्य इति । व्रीह्युत्पत्तेरा-अर्वाक् । इत्यर्थः । एतेन व्रीहिभ्योऽध्यायवेभ्य इति व्याख्यातम् ॥ स त्वासस्य इति । स इति प्रकृतपरामर्शिना सर्वनाम्ना नि- रपेक्षं बलिद्वयं परामृश्यते । तुशब्दोऽन्येभ्योवलिभ्योऽस्य वैशिष्ट्यमवग- मयति(१) । स खल्वयं बलिरेकस्मात् सस्यादारभ्यापरसस्यपर्यन्तं कर्त्तव्यत्वा- दासस्योनाम(२) भवति ॥ २९ ॥ दीर्घायुर्हेव भवति ॥ ३० ॥ दीर्घमायुर्यस्य सोऽयं दीर्घायुर्ह-किल(नूनं) भवत्येव । नाऽल्पायुर्यं य- जमानोभवतीत्यर्थः ॥ ३० ॥ विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो भवति स रौद्रो भवति ॥ ३१ ॥ इति गोभिलीयगृह्यसूत्रे चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ ॐ ॥ विशेषेण श्राणिते “शृणुदाते” ( चु०प ० ) इति स्मरणाद्दत्तेऽन्ने क्षीण- प्राये इत्यर्थः । एवञ्च रात्रा(३)वयं बलिर्भवति । तत्र हि सर्वमन्नं श्राणितन्दत्तं क्षीणप्रायं भवतीति भट्टभाष्यम् ॥ शिष्टान्नानां फलीकरणानां तुषाणामाचाम- स्य भक्तमण्डस्य “मासराचामनि (वि)स्रावा मण्डे भक्तसमुद्भवे” इत्यमरः । स्मर्यते च “ओदनाम्रद्रवं प्राहुराचामं हि मनीषिणः” इति । अपाम् उदकस्य च । अवयवार्थेऽत्र षष्ठ्यः । इतिना मिलितमुच्यते । त्रीण्येतान्येकीकृत्येत्यर्थः । ( १ ) स्वयमेव खल्वयं बलिर्हर्त्तव्योलोप एवास्य प्रवासादावित्युक्तप्रायम् । ( २ ) अन्नार्था हीयं संज्ञा आश्वारूसस्याद्भावसन्तसस्येन यस्य हरणम् । एवमावस- न्तसस्यादाशारत्सस्येनेति । सोऽयमासस्योनामेति ॥ ( ३ ) तथाच गृह्यान्तरम्- “यक्ष्मणे चोदकन्दद्याद्यक्ष्मैतत्त इति ब्रुवन् । आरोग्यमस्य तेन स्यात्सार्यं रौद्राद्यथेप्सित- म्॥” इति । अत्रयथेप्सितमिति वचनाद्यत्किञ्चित्कामयते तद्रौद्रबलेः फलमवगच्छामः ॥ ९ गो० गृ० सू०