गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 157, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० २ । क० २० ॥ १११ भावार्थ :-जो मनुष्य चारों वेदों में निपुण है वही निर्विघ्न होकर सब सामग्री यथावत् एकत्र क के अग्न्याधान करावे ॥ १९ ॥ कण्डिका २० ॥ ब्राह्मणो ह वा इममग्निं वैश्वानरं बभार । सोऽयमग्निर्वैश्वानरो ब्राह्मणेन ध्रियमाण इमांल्लोकान् जनयतेऽथायमीक्षतेऽग्निर्जातवेदा ब्राह्मणद्वितीयो ह वा अयमिदमग्निर्वैश्वानरो ज्वलति हन्ताहं यन्मयि तेज इन्द्रियं वीर्य्यन्तद्दर्शयाम्युत वै मा बिभ्रियादिति, स आत्मानमाप्याययेत्तं पयोधोक्तमिमं ब्राह्मणं दर्शयित्वा- ऽऽत्मन्यजुहोत्, सद्वितीयमात्मानमाप्याययेत्तं घृतमधोक्तमिमं ब्राह्मणं दर्शयित्वा आत्मन्यजुहोत्, स तृतीयमात्मानमाप्याययेत्तदिदं विश्वं विकृतमन्नाद्यमधोक्तमिमं ब्राह्मणं दर्शयित्वाऽऽत्मन्यजुहोत्, स चतुर्थमात्मानमाप्याययेत्तेन ब्राह्मणस्य जायां विराजमपश्यत् तामस्मै प्रायच्छत् स आत्मा अपित्वमभवत्तत इममग्निं वैश्वानरं परास्युर्ब्राह्मणोऽग्निं जातवेदसमधत्त, सोऽयमब्रवीत् अग्ने जातवेदोऽभिनिधेहि मैहीति तस्य द्वैतं नामाधत्ताघोरं चाक्रूरञ्च, सोऽश्वोऽभवत्तस्मादश्वो वहेत् रथं न भवति पृष्ठेन सादिनं, स देवानागच्छत्स देवेभ्योऽन्वातिष्ठत् तस्माद्देवा अविभयुस्तं ब्रह्मणे प्रायच्छन्तमेतयर्चोऽशमयत् ॥ २० ॥ कण्डिका २० ॥ वैश्वानर, जातवेदा और अश्व नामक अग्नि ॥ ( ब्राह्मणः ह वै इमं वैश्वानरं अग्निं बभार ) ब्राह्मण [ ब्रह्मज्ञानी ] ने ही इस वैश्वानर [ सब नरों के हित करने वाले ] अग्नि को धारण किया। ( सः अयं वैश्वानरः अग्निः ब्राह्मणेन ध्रियमाणः इमान् लोकान् जनयते ) सो यह वैश्वानर अग्नि ब्राह्मण से धारण किया हुआ होकर इन लोकों को उत्पन्न करता है। ( अथ ब्राह्मणद्वितीयः अयम् जातवेदाः अग्निः ह वै [इदम्] ईक्षते, अयम् वैश्वानरः अग्निः इदम् ज्वलति ) फिर ब्राह्मण को सहायक रखने वाला यह जातवेदा [ उत्पन्न पदार्थों में विद्यमान ] अग्नि [ इस जगत् को ] देखता है, और यह वैश्वानर [ सब नरों का हितकारी ] अग्नि इस [ जगत् ] को प्रकाशित करता है। ( हन्त यत् मयि तेजः इन्द्रियं वीर्य्यं तत् अहम् दर्शयामि, उत् वै मा बिभ्रियात् इति ) [ अग्नि बोला ] हर्ष हों ! जो मुझमें तेज, ईश्वरत्व और वीरपनं है उसको मैं दिखाऊँ और वह निश्चय करके मुझको धारण २०-( वैश्वानरम् ) नॄ नये-अच् । नॄणाति, नयतीति नरः । पुरुषः । नरे संज्ञायाम् ( पा० ६ । ३ । १२९ ) विश्वस्य दीर्घः । तस्मै हितम् ( पा० ५ । १ । ५ ) इत्यण् । वैश्वानरः कस्माद् विश्वान् नरान् नयति विश्व एनं नरा नयन्ति-निरु० ७ । २१ । सर्वनरहितम् ( जातवेदाः ) गतिकारकोपपदयोः० ( उ० ४ । २२७ ) जात + विद ज्ञाने विद्लृ लाभे, विद सत्तायां वा-असिप्रत्ययः । जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा-निरु० ७ । १९ । जातेषु उत्पन्नपदार्थेषु विद्यमानः ( ब्राह्मणद्वितीयः ) ब्राह्मणो द्वितीयः सहायो यस्य सः ( इदम् )