गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 200, कुल 600 में से
संदर्भ में पढ़ें१६२ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १४ तानि तृप्यन्ति १, यो ह वा एवं विद्वानश्नाति च पिबति च प्राणस्तेन तृप्यति, प्राणे तृप्ते वायुस्तृप्यति, वायौ तृप्तेऽन्तरिक्षं तृप्यति अन्तरिक्षे तृप्ते यान्यन्तरिक्षे भूतान्यन्वायत्तानि तानि तृप्यन्ति २, यो ह वा एवं विद्वानश्नाति च पिबति च चक्षुस्तेन तृप्यति, चक्षुषि³ तृप्त आदित्यस्तृप्यत्यादित्ये तृप्ते द्यौस्तृप्यति, दिवि तृप्तायां यानि दिवि भूतान्यन्वायत्तानि तानि तृप्यन्ति ३, यो ह वा एवं विद्वान- श्नाति च पिबति च मनस्तेन तृप्यति, मनसि तृप्ते चन्द्रमःस्तृप्यति चन्द्रमसि तृप्ते आपस्तृप्यन्त्याप्सु तृप्तासु यान्यप्सु भूतान्यन्वायत्तानि तानि तृप्यन्ति ४, यो ह वा एवं विद्वानश्नाति च पिबति च श्रोत्रं तेन तृप्यति, श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति, दिक्षु चान्तर्देशेषु च तृप्तेषु च यानि दिक्षु चान्तर्देशेषु च भूतान्यन्वायत्तानि तानि तृप्यन्ति ५, यो ह वा एवं विद्वानश्नाति च पिबति च तस्यायमेव दक्षिणः पाणिर्जुहूः सव्य उपभृत् कण्ठो ध्रुवाऽन्नं हविः प्राणा ज्योतींषि सदिष्टं सदाहुतं सदाशितं पायितमग्निहोत्रं भवति य एवं वेद यश्चैवं विद्वानग्निहोत्रं जुहोतीति ब्राह्मणम् ।।१४।। कण्डिका १४ ।। खान पान के लाभ ।। (भो भगवन् एवम् एव एतत् यथा भवान् आह, उपयामि तु एव भवन्तम् इति) [प्राचीनयोग्य बोला] हे भगवन् यह वैसा ही है जैसा आपने कहा कि मैं तो आप के पास ही आया हूं । ( एवं चेद् न अवक्ष्यः ते मूर्द्धा व्यपतिष्यत् इति ) जो तू ऐसा [ यथार्थ ] न कहता तो तेरा मस्तक गिर जाता [ देखो कं० ८ ], ( तु हन्त ते तद् वक्ष्यामि यथा ते न व्यपतिष्यति इति ) किन्तु, हे भाई ! तुझसे वह कहूंगा जिस से तेरे लिये [ मेरा मस्तक ] न गिरेगा । ( यः ह वै एव विद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति ) जो ही ऐसा [ सत्यवादी ] विद्वान् खाता और पीता है वाणी उससे तृप्त होती है १, ( वाचि तृप्तायाम् अग्निः तृप्यति ) वाणी के तृप्त होने पर अग्नि तृप्त होता है २, ( अग्नौ तृप्ते पृथिवी तृप्यति ) अग्नि के तृप्त होने पर पृथिवी तृप्त होती है ३, (पृथिव्यां तृप्तायां पृथिव्यां यानि अन्वायत्तानि भूतानि तानि तृप्यन्ति ) पृथिवी के तृप्त होने पर जो एक दूसरे के वशीभूत प्राणी आदि हैं वे तृप्त होते हैं। ४,१। ( यः ह वै एवं विद्वान् अश्नाति च पिबति च प्राणः तेन तृप्यति ) जो ही ऐसा विद्वान् खाता और पीता है प्राण उससे तृप्त होता है १, ( प्राणे तृप्ते वायुः तृप्यति ) प्राण के तृप्त होने पर वायु तृप्त होता है २, ( वायौ तृप्ते अन्तरिक्षं तृप्यति ) वायु के तृप्त होने पर अन्तरिक्ष [ मध्यलोक ] तृप्त होता है ३, ( ( अन्तरिक्षे तृप्ते अन्तरिक्षे यानि अन्वायत्तानि भूतानि तानि तृप्यन्ति ) अन्तरिक्ष के तृप्त होने पर १४-( उपयामि ) उप + या प्रापणे - लट् । आगतवानस्मि ( अवक्ष्यः ) वच परिभाषणे-लङ् । अकथयिष्यः ( व्यपतिष्यत् ) वि+पतॢ गतौ - लृङ्, विविधमपतिष्यत् । ( वक्ष्यामि ) कथयिष्यामि ( अश्नाति ) भक्षति ( पिबति ) पानं करोति ( तृप्यति ) हृष्यति ( भूतानि ) सत्तामात्रवस्तूनि ( अन्वायत्तानि ) १. २. ३. पू. सं. 'उपायाम्' 'व्यपतिष्यति' 'चक्षुषी' इत्येते पाठाः ॥ सम्पा० ॥