गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 225, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ८ ।। १८७ मयोर्देवतयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ७ । अथ यत् प्रातरनुवाक- मुपयन्ति प्रातर्याव्ण एव तद् देवां देवतां यजन्ते प्रातर्याव्वाणो देवा देवता भवन्ति, प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ८ । अथ यत् प्रातः सवनमुपयन्ति वसूनैव तद् देवां देवतां यजन्ते, वसवो देवा देवता भवन्ति वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ९। अथ यन्माध्यन्दिनं सवनमुपयन्ति रुद्रानेव तत् देवान् देवतां यजन्ते, रुद्रा देवा देवता भवन्ति रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १० । अथ यत्तृतीयसवनमुपयन्त्यादित्यानेव तद् देवान् देवतां यजन्ते, आदित्या देवा देवता भवन्त्यादित्यानां देवानां सायुज्यं सलो- कतां यन्ति य एतदुपयन्ति ११ । अथ यदवभृथमुपयन्ति वरुणमेव तद् देवं देवतां यजन्ते, वरुणो देवो देवता भवति वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १२। अथ यदुदयनीयया यजन्ते दितिमेव तद् देवीं देवतां यजन्ते अदितिर्देवी देवता भवत्यदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १३ । अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद् देवौ देवते यजतो मित्रावरुणौ देवौ देवते भवतो मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुप- यन्ति १४। अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारमेव तद् देवं देवतां यजन्ते, त्वष्टा देवो देवता भवति त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १५ । अथ यद् देविकाहविर्भिष्चरन्ति या एता उपसत्सुर्भवन्त्यग्निः सोमो विष्णु- रिति देव्यो देविका देवता भवन्ति देवीनां देविकानां देवतानां सायुज्यं सलो- कतां यन्ति य एतदुपयन्ति १६ । अथ यद् दशातिरात्रमुपयन्ति काममेव तद् देवं देवतां यजन्ते, कामो देवो देवता भवति कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १७। अथ यदुदवसानीयया यजन्ते स्वर्गमेव तं लोकं देवं देवतां यजन्ते स्वर्गो लोको देवो देवता भवति स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति १८ । तद्वा एतदग्निष्टोमस्य जन्म स य एवमे- तदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति, प्रतितिष्ठति प्रजया पशुभिर्य एवं वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ८ ॥ कण्डिका ८ ॥ अठारह प्रकार के यज्ञ और उनके फल, और अग्निष्टोम ॥ ( अथ यत् दीक्षणीयया यजन्ते, तत् श्रद्धाम् एव देवीं देवतां यजन्ते, श्रद्धा देवी देवता भवति, श्रद्धायाः देव्याः सायुज्यं सलोकतां यन्ति ये एतत् उपयन्ति ) फिर जब दीक्षणीया [ इष्टि ] [ क० ७ ] से यज्ञ करते हैं, तब श्रद्धा देवी ही देवता को पूजते हैं, श्रद्धा देवी देवता [ प्रधान विषय ] होती है, श्रद्धा देवी के सहयोग [ दृढ ८-( यत् ) यदा ( तत् ) तदा ( सायुज्यम् ) सह+युजिर् योगे-क्विप्, ततो भावे-ष्यञ् । सहयोगम् । दृढसंसर्गम् ( सलोकताम् ) सह एकस्मिन्