गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 301, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० १ । क० २ ॥ २६३ मोत्यब्रवीन्नह्यग्नेरास्यं किञ्चन हिनस्ति सोऽबिभेत् प्राशितं मा हिंसिष्यतीतीन्द्रस्य त्वा जठरे सादयामीत्यब्रवीन्नहीन्द्रस्य जठरं किञ्चन हिनस्ति वरुणस्योदर इति नहि वरुणस्योदरं किञ्चन हिनस्तीति ॥ २ ॥ कण्डिका २ ॥ प्रजापति का रुद्र को भागशून्य करना, प्राशित्र का वर्णन, भग सविता आदि का अङ्गभङ्ग होना और बृहस्पति वा ब्रह्मा का शान्त करना ॥ ( प्रजापतिः वै रुद्रं यज्ञात् निरभजत् ) प्रजापति [ प्रजापालक जीवात्मा ] ने रुद्र [ गति वा ज्ञान देने वाले परमेश्वर ] को यज्ञ [ संगति दिये हुये शरीर ] से भाग रहित कर दिया । ( सः अकामयत मा इयम् आकूतिः समृद्धिः अस्मै, यः मा यज्ञात् निरमाक्षीत् इति ) उस [ रुद्र ] ने इच्छा की—[ मुझको ] मेरा यह संकल्प और समृद्धि इस [ प्रजापति ] के लिये हैं, जिसने मुझे यज्ञ से क्रोध करके निकाल दिया है । ( तत् सः यज्ञम् अभ्यायम्य आविध्यत् आविद्धं निरकृन्तत् तत् प्राशित्रम् अभवत् ) तब उस [ रुद्र ] ने यज्ञ को पकड़ कर छेद कर दिया और छिदे हुये को काट डाला, वह [ यज्ञ वा शरीर ] प्राशित्र [ खाने योग्य अन्न ] हो गया । ( तत् उदयकृत् भगाय तत् पर्य्यहरन् ) तब उदयकृत् [ उदय वा यज्ञ करने वाले प्रजापति ] ने भग [ सेवनीयं धन वा ऐश्वर्य ] को वह [ प्राशित्र ] लाकर दिया । ( तत् प्रत्यैक्षत ) उस [ भग ] ने उसे देखा । ( तस्य चक्षुः परापतत् तस्मात् आहुः अन्धः वै भगः इति, अपि ह तं छेद्यं नेत् इच्छति ) उसकी आंख गिर पड़ी इससे कहते हैं—भग अन्धा है—उसने नष्ट किये हुये और छिदे हुये को न ग्रहण किया । ( तत् सवित्रे पर्य्यहरन् ) वह सविता [ लोक प्रेरक सूर्य ] को उसने २—( प्रजापतिः ) प्रजापालकः । जीवात्मा ( रुद्रम् ) रु गतौ शब्दे च— क्विप् तुक् आगमः । मत्वर्थीयो रः अथवा रा दाने—क्रः । रुद्रो रोतीति सतो रोरूय- माणो द्रवतीति वा रोदयतेर्वा । स च मध्यस्थानदेवता—निरु० १० । ५ । वायुम् । प्राणगतिदातारं परमात्मानम् ( यज्ञात् ) संगतिकृतात् शरीरात् ( निरभजत् ) भागशून्यम् अकरोत् ( आकूतिः ) सङ्कल्पः ( निरमाक्षीत् ) मश रोषे— लुङ् दीर्घः । रोषेण बहिष्कृतवान् ( अभ्यायम्य ) परिगृह्य ( आविध्यत् ) आ+व्यध ताडने—लङ् । अच्छिनदत् ( आविद्धम् ) आच्छिन्नम् ( निरकृन्तत् ) कृती छेदने—लङ् । सर्वथा छिन्नवान् ( प्राशित्रम् ) अशितादिभ्य इत्रोत्रौ ( उ० ४ । १७३ ) अशूङ् व्याप्तौ —अश भोजने वा—इत्रः । भक्षणीयम् । अन्नम् । चरुम् ( उदयकृत् ) उत्पत्तिकर्ता । प्रजापतिः ( भगाय ) पुंसि संज्ञायां घः प्रायेण ( पा० ३ । ३ । ११८ ) यद्वा । खनो घ च ( पा० ३ । ३ । १२५ ) भज सेवायाम्— घः । भगः, धननाम-निघ० २ । १० । पदनाम-निघ० ५ । ६ । सेवनीयाय । यशसे । ऐश्वर्याय ( पर्य्यहरन् ) पर्य्यहरत् । पर्यानीतवान् ( प्रत्यैक्षत ) प्रति ईक्ष दर्शने लङ् । प्रत्यक्षेण ईक्षितवान् । दृष्टवान् ( नेत् ) निषेधे ( छेद्यम् ) छिन्नम् ( सवित्रे ) लोकप्रेरकाय सूर्याय ( पूष्णे ) श्वन्नुक्षन्पूषन्० ( उ० १ । १५६ )