भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 377, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 377

गोपथब्राह्मणे उत्तरभागे प्र० २ । क० १४ ३३९ देवेभ्यः प्रासुवन्, तेनाध्नु॑वन् सवितृप्रसूता एव स्तु'वन्त्यृध्नुवन्ति । बृहस्पतये स्तुतेति, बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा । तदनुमत्यैव ओं भर्जनदिति, प्रातः- सवन ऋग्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गु॑प्तैः स्तुतेत्येव । औं भुवो जनदिति, माध्यन्दिने सवने यजुर्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गु॑प्तैः स्तुतेत्येव । ओं स्वर्जनदिति, तृतीयसवने सामभिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गु॑प्तैः स्तुतेत्येव । अथ यद्यहीन उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामो वा स्यात् सर्वाभिः सर्वाभिरत ऊर्ध्वं व्याहृतिभिरनुजानाति । ओं भूर्भुवः स्वर्जनद् वृधत् करद् गुहन् महत्तच्छमोमिन्द्रवन्त स्तुतेति, सेन्द्रान्मापगायत सेन्द्रांश्च॑स्तुत इत्येव । इन्द्रियवान् नृद्धिमान् वशीयान् भवति य एवं वेद, यश्चैवं विद्वान् स्तोमभागैर्यजते ॥ १४ ॥ कण्डिका १४ ॥ आगे और स्तोम भागों और व्याहृतियों का वर्णन ॥ ( अधिपतिः असि १ ) [ हे परमात्मन् ! ] तू अधिपति [ बड़ा राजा ] है, ( धरुणः असि २ ) तू धारण करने वाला है, ( संसर्पः असि ३ ) तू भले प्रकार व्यापक है, ( वयोधाः असि ४ ) तू अन्न धारण करने वाला है, ( प्राणः अपानः चक्षुः श्रोत्रम् इति एतानि वै पुरुषम् अकरन् ) [ इस प्रकार परमात्मा की स्तुति द्वारा पराक्रम और स्वास्थ्य होने से ] प्राण [ भीतर जाने वाला श्वास ], अपान [ बाहर जाने वाला श्वास ], नेत्र और कान, इन्होंने ही पुरुष बनाया है । ( प्रजात्यै एव प्राणान् उपैति ) [ मनुष्य ] उत्तम जन्म [ जीवन ] के लिये ही प्राणों को पाता है । ( त्रिवृत् असि ५ ) [ हे परमात्मन् ! ] तू तीनों [ भूत भविष्य वर्तमान काल ] में वर्तमान है, ( प्रवृत् असि ६ ) उत्तमता से वर्तमान है, ( स्ववृत् असि ७ ) तू अपने आप वर्तमान है, (अनुवृत् असि ८) तू निरन्तर वर्तमान है—( मिथुनम् एव करोति ) इससे [ मनुष्य ] स्थिर ज्ञान ही करता है । ( आरोहः असि ९ ) [ हे परमात्मन् ! ] तू चढ़ने वाला है, ( प्ररोहः असि १० ) तू उपजाने वाला है, ( संरोहः असि ११ ) तू बढ़ाने वाला है, ( अनुरोहः असि १२ ) तू निरन्तर वर्तमान है— ( प्रजापतिः एव ) इससे [ मनुष्य ] प्रजापति [ प्रजापालक ] ही होता है । ( वसुकः असि १३ ) [ हे परमात्मन् ] तू ढक लेने वाला है, ( वस्यष्टिः १४—(अधिपतिः) सर्वोपरि राजा ( धरुणः ) कृवृदारिभ्य उनन् ( उ० ३ । ५३ ) धॄञ् धारणे—उनन् । धर्ता ( संसर्पः ) सम्यग् व्यापकः ( वयोधाः ) वयसि धाञः ( उ० ४ । २२९) वयः+डुधाञ् धारणपोषणयोः—असिः । वयः, अन्ननाम—निघ० २ । ७ । अन्नधारकः ( प्रजात्यै ) प्रकृष्टजन्मने । उत्तमजीवनाय ( त्रिवृत् ) त्रिषु भूतभविष्यवर्तमानकालेषु वर्तमानः ( प्रवृत् ) प्रकर्षेण वर्तमानः ( स्ववृत् ) आत्मना वर्तमानः ( अनुवृत् ) निरन्तरं वर्तमानः ( मिथुनम् ) क० १३ । स्थिरज्ञानम् ( आरोहः ) आ + रुह बीजजन्मनि प्रादुर्भावे च—घञ् । आरोहणशीलः ( वसुकः ) उलूकादयश्च ( उ० ४ । ४१ ) वस आच्छादने—उकप्रत्ययः । आच्छादकः १. पू. सं. 'स्तुवन्' इति पाठः ॥ सम्पा० ॥