गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 385, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० २। क० १९ ३४७ का तिरस्कार करके नहीं रहते, वे अवश्य [ दूसरों से ] नमस्कार किये गये नमस्कार करने वाले को [ आशीर्वाद ] देते हैं [ यह गोप्ताओँ को आशीर्वाद का विषय हुआ ] । ( ततः एतं प्रजापतिं यज्ञं प्रपद्यते, नमो नमः इति ) फिर इस प्रजापति यज्ञ में वह [ यजमान ] पहुँचता है--नमो नमः [ कहता है ] । ( देवाः नमस्कारम् अति न हि, सः यजमानः तत्र एव सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ) देवता [ विद्वान् लोग ] नमस्कार का तिरस्कार करके नहीं रहते, वह यजमान उस [नमस्कार करने] में सब मनोरथों को पाता है, सब मनोरथों को पाता है ॥ १८ ॥ भावार्थ :--बड़े बड़ों की आदरपूर्वक सम्मति मानने से मनुष्य के मनोरथ सिद्ध होते हैं ॥ १८ ॥ कण्डिका १९ ॥ यो वै सदस्यान् गन्धर्वान् वेद, न सदस्यामार्ट्तिमार्च्छति । सदः प्रसृप्सन् ब्रूयादु- पद्रष्ट्रे नम इति, अग्निर्वे द्रष्टा, तस्मा उ एवात्मानं परिदधाति सर्वमायुरेति न पुरा जरसः प्रमीयते, य एवं वेद । १ । सदः प्रसृप्य ब्रूयादुपश्रोत्रे नम इति । वायुर्वा उपश्रोता, तस्मा उ एवात्मानं परिदधाति सर्वमायुरेति न पुरा जरसः प्रमीयते, य एवं वेद । २ । सदः प्रसर्पन् ब्रूयात्, अनुख्यात्रे नम इति आदित्यो वा अनुख्याता तस्मा उ एवात्मानं परिदधाति सर्वमायुरेति न पुरा जरसः प्रमीयते, य एवं वेद । ३ । सदः प्रसृप्तो ब्रूयात्, उपद्रष्ट्रे नम इति । ब्राह्मणो वा उपद्रष्टा, तस्मा उ एवात्मानं परिदधाति सर्वमायुरेति न पुरा जरसः प्रमीयते, य एवं वेद । ४ । एते वै सदस्या गन्धर्वाः । स य¹ एवमेतान् सदस्यान् गन्धर्वान्विद्वान् सदः प्रसर्पति, स सदस्यामार्तिमार्च्छति । अथ यो विद्वान् सञ्चरति, न सदस्यामार्तिमार्च्छति । एतेन ह स्म वा अङ्गिर²सः सर्वं सदः पर्य्याहुः, ते न सदस्यामार्त्तिमार्च्छन्ति । अथ यान् कामयेत न सदस्यामार्त्तिमार्च्छेयुरिति, तेभ्य एतेन सर्वं सदः परिब्रूयात्ते न सदस्यामार्त्तिमार्च्छन्ति । अथ यं कामयेत प्रमीयेतेति, तमेतेभ्य आवृश्चेत् प्रमीयते ॥ १६ ॥ कण्डिका १९ ॥ सदस्य गन्धर्वों को नमस्कार ॥ ( यः वै सदस्यान् गन्धर्वान् वेद, सदस्याम् आर्त्तिं न आर्च्छति ) जो [ यजमान ] सदस्य [ यज्ञशाला में बैठने वाले ] गन्धर्वों [ वेदवाणी वा पृथिवी धारण करने वाले विद्वानों ] को जानता है, वह यज्ञशाला में होने वाली पीड़ा को नहीं पाता है । ( सदः प्रसृप्सन् ब्रूयात्, उपद्रष्ट्रे नमः इति ) सद [ यज्ञशाला ] में जाना चाहता हुआ [ यजमान ] बोले-उपद्रष्टा [ अधिक देखने वाले ] को नमस्कार है, ( अग्निः वै द्रष्टा तस्मै उ एव १६- ( सदस्यान् ) सदसि यज्ञशालायां भवान् ( गन्धर्वान् ) गां वाणीं पृथिवीं गतिं वा धरतीति गन्धर्वः । कृगृशॄदृभ्यो वः ( उ० १ । १५५ ) गो+धृञ् धारणे— वप्रत्ययः, गोशब्दस्य गम् । वेदवाणीधारकान् भूमिधारकान् ( उपद्रष्ट्रे ) १. पू. सं. “यः” इति नास्ति ॥ २. पू. सं. ‘आङ्गिरसः’ इति पाठः ॥ सम्पा० ॥