गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 443, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ३ । कं० २२ ४०५ भावार्थः-मनुष्यों को गुणों के अनुसार ही स्तुति करनी चाहिये ॥ २१ ॥ विशेषः १-इस कण्डिका को ऐतरेय ब्राह्मण ३ । २३ के अन्तिम भाग से मिलाओ ॥ विशेषः २-(ग्रहाः) शब्द के स्थान पर (गृहाः) पद ऐतरेय ब्राह्मण और गोपथब्राह्मण की अगली कण्डिका २२ से शुद्ध किया है ॥ कण्डिका २२ ॥ स्तोत्रियं शंसति । आत्मा वै स्तोत्रियः, स मध्यमया वाचा शंस्तव्य आत्मानमेवास्य तत् कल्पयति । अनुरूपं शंसति, प्रजा वा अनुरूपः, तस्मात् प्रतिरूपमनुरूपं कुर्वन्ति । प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः । तस्मात् प्रतिरूपमनुरूपं कुर्वन्ति । स उच्चैस्तरामिव शंस्तव्यः, प्रजामेवास्य तच्छ्रेयसीं करोति । धाय्यां शंसति, पत्नी वै धाय्या, सा नीचैस्तरामिव शंस्तव्याप्रति- वादिनी हैवास्य गृहेषु पत्नी भवति, यत्रैवं विद्वान् नीचैस्तराम् धाय्यां शंसति । प्रगाथं शंसति, पशवो वै प्रगाथः, स स्वरवत्या वाचा शंस्तव्यः । पशवो वै प्रगाथः, पशवः स्वरः, पशूनामाप्त्यै । सूक्तं शंसति । गृहा वै सूक्तं, प्रतिवीतं तत्, प्रतिवीततमया वाचा शंस्तव्यम् । स यद्यपि ह दूरात् पशूल्लभते गृहानेवैनाना- जिगमिषति । गृहा हि पशूनां प्रतिष्ठा । निविदं शंसति यदन्तरात्मन्, तन्निवित्, तदेवास्य तत् कल्पयति । परिधानीयां शंसति, प्रतिष्ठा वै परिधानीया, प्रतिष्ठाया एवैनमन्तः प्रतिष्ठापयति । याज्यया यजति, अन्नं वै याज्या, अन्नाद्यमेवास्य तत् कल्पयति । मूलं वा एतद्यज्ञस्य, यद्धाय्याश्च याज्याश्च । तद्यदन्नाः अन्नाद्धाय्याश्च याज्याश्च कुर्युः, उन्मूलमेव तद्यज्ञं कुर्युः । तस्मात्ताः सामान्या एव स्युः ॥ २२ ॥ कण्डिका २२ ॥ स्तोत्र इत्यादि यज्ञाङ्गों की आत्मा आदि से सदृशता का अधिक विवरण ॥ ( स्तोत्रियं शंसति ) वह [ ऋत्विज् ] स्तोत्रिय [ स्तोत्र ] बोलता है। ( आत्मा वै स्तोत्रियः, सः मध्यमया वाचा शंस्तव्यः ) आत्मा [ जीव के तुल्य ] ही स्तोत्रिय है, वह मध्यम [ न ऊंची न नीची ] वाणी से बोलना चाहिये, ( अस्य आत्मानम् एव तत् कल्पयति ) इस [ यजमान ] के आत्मा को ही वह समर्थ करता है। ( अनुरूपं शंसति ) वह अनुरूप [ विषय सदृश स्तोत्र ] बोलता है। ( प्रजा वै अनुरूपः, तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति ) प्रजा [ के तुल्य ] ही अनुरूप है, इसलिये प्रतिरूप [ समान विषय वाले स्तोत्र ] को अनुरूप [ अनुकूल वा योग्य स्तोत्र ] वे करते हैं। ( अस्य प्रजायाम् प्रतिरूपः ह एव आजायते, न अप्रतिरूपः ) इस [ यजमान ] की प्रजा में [ कुल आदि के ] सदृश ही [ सन्तान ] उत्पन्न होता है, असदृश नहीं। ( तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति ) इसलिये प्रतिरूप [ समान विषय वाले स्तोत्र ] को अनुरूप [ अनुकूल २२-( शंसति ) पठति ( अस्य ) यजमानस्य ( कल्पयति ) समर्थं करोति ( प्रतिरूपम् ) सदृशम् । विषयसदृशतुल्यगुणम् ( श्रेयसीम् ) प्रशस्य-ईयसुन्,