गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 479, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ४ । क० १६ ४४१ कण्डिका १६ ॥ अथ यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू इत्यृचाभ्यनूक्तं मद्वद्धि तृतीयसवनम् । वयमु त्वामपूर्व्यं यो न इदमिदं पुरेति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ । प्र मंहिष्ठाय बृहते बृहद्रय इत्युक्थमुखम् । ऐन्द्रं जागतं, जागताः पशवः, पशूनामाप्त्यै । जागतमु वै तृतीयसवनं तृतीयसवनस्य रूपम् । उदप्रुतो न वयो रक्षमाणा इति बार्हस्पत्यं सांशंसिकम् । अहञ्चेति बृहस्पतिरब्रवीत्, देवतयोः संशंसायानतिशंसाय । अच्छा म इन्द्रं मतयः स्वर्विद इति पर्यास ऐन्द्राबार्हस्पत्ये । ऐन्द्राबार्हस्पत्यमस्यैतन्नित्य- मुक्थम् । तदेतत् स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति । द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त विजित्या एव, अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै । बृहस्प- तिर्नः परि पातु पश्चादित्यैन्द्राबार्हस्पत्या परिदधाति । इन्द्राबृहस्पत्योरेव यज्ञं प्रतिष्ठापयति, उत्तोत्तरस्मादधरादधायोरिन्द्रः पुरस्तादुत मध्यतो नः सखा सखि- भ्यो वरिवः कृणोत्विति । सर्वाभ्य एव दिग्भ्य आशिषमाशास्ते, नार्त्विज्यं कामं कामयते । सोऽस्मै कामः समृध्यते, य एवं वेद, यश्चैवं विद्वान् ब्राह्मणाच्छंस्ये तया परिदधाति । बृहस्पते युवमिन्द्रश्च वस्व इति यजति । एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट् करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यानाराशं- साः सीदन्ति ॥ १६ ॥ कण्डिका १६ ॥ एकाह यज्ञ के तृतीय सवन के उक्थ में ब्राह्मणाच्छंसी ऋत्विज् के मन्त्र ॥ (अथ यत् ब्राह्मणाच्छंसिनः ऐन्द्राबार्हस्पत्यम् उक्थं भवति) फिर जो ब्राह्मणाच्छंसी [ऋत्विज्] का इन्द्र और बृहस्पति [मन और आँख-क० ११] देवता वाला उक्थ [स्तोत्र] होता है [उसका वर्णन]। (इन्द्रश्च सोमं पिवतं बृहस्पते अस्मिन् यज्ञे मन्दसाना वृषण्वसू <sup>...</sup>इति ऋचा अभ्यनूक्तम्) इन्द्रः च सोमं पिवतं<sup>...</sup> १—इस ऋचा करके अनुकूल कहा गया है। (मद्ववत् हि तृतीयसवनम्) हर्ष युक्त [अथवा मद शब्द वाला] ही तृतीय सवन है। (वयमु त्वामपूर्व्य, यो नः इदमिदं पुरा—इति ब्राह्मणाच्छंसिनः स्तोत्रियानुरूपौ) वयम् उ त्वाम् अपूर्व्यं<sup>......</sup>२, और, यः न इदमिदं पुरा<sup>......</sup>३—यह दो मन्त्र ब्राह्मणाच्छंसी के स्तोत्रिय और अनुरूप हैं। (प्र मंहिष्ठाय बृहते बृहद्रये<sup>......</sup>इति उक्थमुखम्) प्र मंहिष्ठाय बृहते बृहद्रये<sup>......</sup> १६—(बृहस्पते) हे बृहत्या वेदवाण्या रक्षक विद्वन् (मन्दसाना) मदि आमोदस्त- तिदीप्त्यादिषु—अमानच्। आमोदयितारौ (वृषण्वसू) यौ वृषणौ बलवतो वीरान् वासयतस्तौ (अपूर्व्यं) स्वार्थे-यत् नास्ति पूर्वः श्रेष्ठो यस्मात् स अपूर्वः, अपूर्व्यः । हे अनुपम (इदमिदम्) बहुर्निर्दिष्टम् (पुरा) अग्रे (मंहिष्ठाय) संहतेर्दानकर्मा—निघ० ३।२०। महि वृद्धौ दाने च—तृच्, मंहितृ—इष्ठन्, तृलोपः । दातृत्तमाय (बृहते) गुणैर्महते (बृहद्रये) रै शब्दस्य ऐकारस्य एकारः। प्रभूतधनाय (जागतम्) जगत्