भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 50, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 50

१२ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ६ ॥ ऊंचा [ उत्कृष्ट ] (अक्षरम्) अक्षर [ अविनाशी ब्रह्म शब्द ] ( उद् अक्रामत् ) निकला । ( सः यः ) वह पुरुष जो ( इच्छेत् ) चाहे-( एतैः सर्वैः ) इन सब ( अथर्वभिः ) अथर्वाओं [ निश्चल वेद ज्ञानों ] से ( च ) और भी ( आथर्वणैः ) आथर्वणों [ निश्चल ब्रह्म के विज्ञानों ] से ( कुर्वीय इति ) मैं [ पुरुषार्थ ] करूँ-वह ( एतया एव ) इस ही ( महाव्याहृत्या ) महाव्याहृति [ महावाक्य ओम् ] से ( तम् ) उस [ पुरुषार्थ ] को ( कुर्यात् ) करे । ( अस्य ) उस [ पुरुष ] का ( एतैः सर्वैः ) इन सब ( अथर्वभिः ) अथर्वाओं [ निश्चल वेदज्ञानों ] से ( च च ) और भी ( आथर्वणैः ) आथर्वणों [ निश्चल ब्रह्म के विज्ञानों ] से ( ह वै ) ही अवश्य ( कृतम् ) कर्म ( भवति ) होता है, ( यः एवम् वेद ) जो ऐसा विद्वान् है, ( च यः ) और जो ( एवम् विद्वान् ) ऐसा विद्वान् [ जानकार होकर ] ( एवम् ) इस प्रकार से ( एतया महाव्याहृत्या ) इस महाव्याहृति [ ओम् ] से ( कुरुते ) कर्म करता है ॥ ५ ॥ भावार्थः-ऋषि महात्माओं ने ब्रह्म को उसके प्रकट किए हुए ज्ञानों और विज्ञानों द्वारा सब ज्ञानों और विज्ञानों का सार एक ओ३म् को सर्वरक्षक सर्वव्यापक परमात्मा माना है ॥ ५ ॥ कण्डिका ६ ॥ स भूयोऽश्राम्यद् भूयोऽतप्यद् भूय आत्मानं समतपत् स आत्मन एवं त्रींल्लोकान्निरमिमत पृथिवीमन्तरिक्षन्दिवमिति । स खलु पादाभ्यामेव पृथिवीं निरमिमतोदरादन्तरिक्षम्, मूर्ध्नोदिवम् । स तांस्त्रींल्लोकानभ्यश्राम्यदभ्यतपत्स- मतपत्तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यस्त्रीन् देवान् निरमिमताग्निं वायुमादि- त्यमिति । स खलु पृथिव्या एवाग्निं निरमिमान्तरिक्षाद्वायुन्दिव आदित्यम् । स तांस्त्रीन् देवानभ्यश्राम्यदभ्यतपत् समतपत्तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्य- स्त्रीन् वेदान्निरमिमत ऋग्वेदं यजुर्वेदं सामवेदमिति, अग्ने ऋग्वेदं, वायोर्यजुर्वेदं आदित्यात्सामवेदम् । स तांस्त्रीन् वेदानभ्यश्राम्यदभ्यतपत् समतपत् तेभ्यः श्रान्ते- भ्यस्तप्तेभ्यः सन्तप्तेभ्यस्तिस्रो महाव्याहृतीर्निरमिमत भूर्भुवः स्वरिति । भूरि- त्युग्वेदात्, भुव इति यजुर्वेदात्, स्वरिति सामवेदात् । स य इच्छेत्सर्वैरैतैस्त्रिभि- र्वेदैः कुर्वीयेत्येताभिरेव तं महाव्याहृतिभिः कुर्वीत सर्वैर्ह वा अस्यैतैस्त्रिभिर्वेदैः कृतं भवति य एवं वेद यश्चैवं विद्वानेवमेताभिर्महाव्याहृतिभिः कुरुते ॥ ६ ॥ ( ओम् ) पृ० १ । १ । सर्वरक्षकः परमेश्वरः ( मनः ) सर्वधातुभ्योऽसुन् ( उ० ४ । १८६ ) मन ज्ञाने-असुन् । मननशीलं ज्ञानस्वरूपं ब्रह्म ( ऊर्ध्वम् ) उत्कृष्टम् ( अक्षरम् ) न क्षरतीति । अविनाशि ब्रह्म ( उद् अक्रामत् ) उदगच्छत् ( कुर्वीय ) अहं पुरुषार्थं कुर्याम् ( तम् ) पुरुषार्थम् ( महाव्याहृत्या ) महती चासौ व्याहृति- श्चेति । महावाक्येन ( कुर्वीत ) कुर्यात् ( कुरुते ) कर्म करोति ॥ ६-( पृथिवीम् ) प्रथैः ष्वन्ष्वन्ष्वनः संप्रसारणं च ( उ० १ । १५० ) प्रथ ख्यातो विस्तारे च--ष्वन्, संप्रसारणं, ङीष् । सर्व विस्तारकं परमात्म-

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 50, कुल 600 में से · BharatKosha