गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 527, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ६ । क० १ ४८१ लब्धदक्षिणेन श्री पण्डित क्षेमकरणदास त्रिवेदिना अथर्ववेदभाष्यकारेण कृते गोपथब्राह्मणभाष्येऽत्तरभागे पञ्चमः प्रपाठकः समाप्तः ॥ अयं प्रपाठकः प्रयागनगरे फाल्गुनमासे शुक्लपक्षे पञ्चम्यां तिथौ १६८० [ अशीत्युत्तरैकोनविंशतिशतके ] विक्रमीये संवत्सरे समाप्तिमगात् ॥ मुद्रितम्-कार्तिककृष्ण ८ संवत् १९८० वि० ता० २१ अक्टूबर सन् १६२४ ई० ॥ अथ षष्ठः प्रपाठकः ॥ कण्डिका १ ॥ ओम् । तान्वा एतान् सम्पातान् विश्वामित्रः प्रथममपश्यत्, एवा त्वामिन्द्र वज्रिन्नत्र, यन्न इन्द्रो जुजुषे यच्च वष्टि कथा महामवृधत् कस्य होतुरिति । तान् विश्वामित्रेण दृष्टान् वामदेवो असृजत । स हेक्षाञ्चक्रे विश्वामित्रो यान् वाहं सम्पातानदर्शंस्तान्वामदेवो असृजत । कानि न्वहं हि सूक्तानि सम्पातांस्तत्प्रतिमान् सृजेयमिति । स एतानि सूक्तानि सम्पातांस्तत्प्रतिमानसृजत, सद्यो ह जातो वृषभः कनीन, उदु ब्रह्मा ण्यैरत श्रवस्याभिष्टये दीधया मनीषामिति विश्वामित्रः । इन्द्रः पूर्भिदातिरद्दासमर्कैयं एक इद्धव्यश्चर्षणीनां यस्तिग्मशृङ्गो वृषभो न भीम इति वसिष्ठः । इमामू षु प्रभृतिं सातये धा इच्छन्ति त्वा सोम्यासः सखायः शासद्वह्निर्- दुहितुर्नप्त्यङ्गादिति भरद्वाजः । एतैर्वै सम्पातैरेत ऋषय इमान् लोकान् समपतन् । तद्यत्समपतन्, तस्मात् सम्पाताः, तत् सम्पातानां सम्पातत्वम् । ततो वा एतांस्त्रीन् सम्पातान् मैत्रावरुणो विपर्यासमेकैकमहरहः शंसति, एवा त्वामिन्द्र वज्रिन्नत्रेति प्रथमेऽहनि, यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये, कथा महामवृधत् कस्य होतु- रिति तृतीये । त्रीनेव सम्पातान् ब्राह्मणाच्छंसी विपर्यासमेकैकमहरहः शंसति, इन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमेऽहनि, य एक इद्धव्यश्चर्षणीनामिति द्वितीये, यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये । त्रीनेव सम्पातानच्छावाको विपर्या- समेकैकमहरहः शंसति, इमामू षु प्रभृति सातये धा इति प्रथमेऽहनि, इच्छन्ति त्वा सोम्यासः सखाय इति द्वितीये, शासद्वह्निदुहितुर्नप्त्यङ्गादिति तृतीये । तानि वा एतानि नव त्रीणि चाहरहः शंस्यानि । तानि द्वादश भवन्ति । द्वादश ह वै मासाः संवत्सरः, संवत्सरः प्रजापतिः, प्रजापतिर्यज्ञः, तत् संवत्सरं प्रजापतिं यज्ञमाप्नोति । तस्मिन् संवत्सरे प्रजापतौ यज्ञे अहरहः प्रतितिष्ठन्तो यन्ति, प्रतितिष्ठन्ते । इदं सर्वमनु प्रतितिष्ठति । प्रतितिष्ठति प्रजया पशुभिः, य एवं वेद । तान्यन्तरेणावापमावपेरन्, अन्यूङ्खा विराजश्चतुर्थेऽहनि, वैमदीश्च पङ्क्तीः पञ्चमे, पारुच्छेपीः षष्ठेऽथ यान्यन्यानि महास्तोत्राण्यष्टर्चच्यान्यावपेरन् ॥ १ ॥ कण्डिका १ ॥ अहीन यज्ञ में सम्पात सूक्तों का वर्णन ॥ (ओम्) ओम् [हे रक्षक परमेश्वर]। (तान् वै एतान् सम्पातान् विश्वामित्रः प्रथमम् अपश्यत्, एवा त्वामिन्द्र वज्रिन्नत्र, यन्न इन्द्रो जुजुषे यच्च वष्टि, कथा