भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 583, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 583

गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० १६ ५४५ भावार्थः-जो मनुष्य वेदों के तत्त्व सार को समझ कर संसार में काम करते हैं, वे धन धान्य, प्रजा और पशुओं से समृद्ध होते हैं ॥१५॥ विशेष: १-इस कण्डिका को ऐतरेय ब्राह्मण ६ । ३६ से मिलाओ ॥ विशेषः ९-सोलह मन्त्रों में से प्रतीक वाला एक अर्थ सहित दिया जाता है, शेष वेद में देखो ॥ यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत् । मुष्काविदस्या एजतो गोशफे शकुलाविव--अथ० २० । १३६ । १-१६, तथा मन्त्र १, यजुर्वेद २३ । २८ ॥ ( यत् ) जब ( अस्याः ) इस ( अंहुभेद्याः ) पाप से नाश होने वाली [ प्रजा ] के ( कृधु ) छोटे और ( स्थूलम् ) बड़े [ पाप ] को ( उपाऽतसत् ) वह [ राजा ] नाश करता है । ( अस्याः ) इस [ प्रजा ] के ( मुष्कौ इत् ) दोनों ही चोर [ स्त्री और पुरुष चोर अथवा रात्रि और दिन के चोर ] ( गोशफे ) गौ के खुर के गढ़े में ( शकुलो इव ) दो मछलियों के समान ( एजतः ) कांपते हैं [ डरते हैं ] ॥ कण्डिका १६ ॥ अथ दाधिक्रीं शंसति, दधिक्राव्णो अकारिषमिति । तत उत्तराः पावमानीः शंसति, सुतासो मधुमत्तमा इति । अन्नं वै दधिक्राः, पवित्रं पावमान्यः, तदु हैके पावमानीभिरेव पूर्वं शंस्त्वा तत उत्तरा दाधिक्रीं शंसति । इयं वागन्नाद्या, यः पवत इति वदन्तस्तदु तथा न कुर्यात्, उपनश्यति ह वागशनायती । स दाधिक्रीमेव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति । तद्यद्दाधिक्रीं शंसति, इयं वागाहनस्यां वाचमवादीत्, तद्देवपवित्रेणैव वाचं पुनीते । सा वा अनुष्टुब् भवति । वाग्वा अनुष्टुप्, तत् स्वेनैव छन्दसा वाचं पुनीते । तामर्द्धर्चशः शंसति, प्रतिष्ठित्या एव । अथ पावमानीः शंसति, पवित्रं वै पावमान्यः, इयं वागाहनस्यां वाचमवादीत्, तत्पावमानीभिरेव वाचं पुनीते । ताः सर्वा अनुष्टुभो भवन्ति, वाग्वा अनुष्टुप्, तत्स्वेनैव छन्दसा वाचं पुनीते । ता अर्द्धर्चशः शंसति, प्रतिष्ठित्या एव, अव द्रप्सो अंशुमतीमतिष्ठदिति । एतं तृचमैन्द्राबार्हस्पत्यं सूक्तं शंसति । अथ हैतदुत्सृष्टं, तत् यदेतं, तृचमैन्द्राबार्हस्पत्यमन्त्यं तृचमैन्द्राजागतं शंसति, सवनधारणमिदं गुल्मह इति वदन्तस्तदु तथा न कुर्यात् । त्रिष्टुबायतना वा इयं वाक् एषां होत्रकाणां, यदैन्द्राबार्हस्पत्या तृतीयसवने । तद्यदेतं तृचमैन्द्राबार्हस्पत्यमन्त्यं तृचमैन्द्राजागतं शंसति, स्व एवैनं तदायतने प्रीणाति, स्वयोर्देवतयोः कामं नित्यमेव परिदध्यात्, कामं तृचस्योत्तमया । तदाहुः, संशंसेत्, षष्ठेऽहनि न संशंसेत्, कथमन्वेष्वहःसु संशंसति कथमत्र न संशंसतीति । अथो खल्वाहुः, नैव संशंसेत् स्वर्गो वै लोकः, षष्ठमहरसमा ये वै स्वर्गो लोकः कश्चिदृद्वे स्वर्गे लोके शमयतीति । तस्मान्न संशंसति यदेव न संशंसति, तत् स्वर्गस्य लोकस्य रूपम् । यद्देवेनाः संशंसति, यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरैवयामहरुत् । एतानि वा अत्रोक्थानि भवन्ति । तस्मान्न संशंसति । ऐन्द्रो वृषाकपिः सर्वाणि छन्दांस्यैतशः प्रलाप उपाप्तो यदैन्द्राबार्हस्पत्या तृतीयसवने, तद्यदेतं तृचमैन्द्राबार्हस्पत्यं सूक्तं शंसति, ऐन्द्राबार्हस्पत्या परिधानीया ३५

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 583, कुल 600 में से · BharatKosha