हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 147, कुल 185 में से
संदर्भ में पढ़ें११] हम्मीरराजपुरवर्णनम् ९९ सूर्याश्मकुड्यप्रतिबिंबिनारी—मुखानि यत्राब्जधिया वितर्क्य । दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥ कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् । ध्वस्तेऽभवन् संतमसेऽवकेशि—यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥ निशम्य यत्रा[विरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः । अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥ दृग्मीलनकेलिषु यत्र बाला सखीमहातंकसुनिश्चलागी । पांचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥ महाकुलकं निभालयन् लोचनलोभिलाक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः । नृपालयश्रीकरकैरवेषु दृशं भृशं स भ्रमरीचकार ॥ ४५ ॥ स्तंबेरमाणां मदवारिभिन्न—कुंभस्थलीसंचरणप्रमत्ताः । झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥ क्रीडागिरींदैरिव वीरक्ष्म्या यदेकतो राजत वारणेंद्रैः । गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्वैः पदखातविन्धैः ॥ ४७ ॥ भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं । पूर्वाद्रिचूलाश्रिततिग्मराश्म मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥ सिंहासनोत्तर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं । रंगत्तरंगांगरुचीचयेने—व खर्वयंतं नवहेमगर्वं ॥ ४९ ॥ नक्षत्रचक्रेष्विव शीतरश्मि मर्मर्त्यचक्रेष्विव देवदेवं । नरेंद्रचक्रेषु विराज मान मनन्यजन्येन महामहिम्ना ॥ ५० ॥ निबद्धभूर्विवितसभ्यदंभान् सभामधस्तादिव कुर्वतीं गोः । अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५१ ॥ किमेषकामो न यतो ऽननंगः किमेष दक्षौ न यदद्वितीयः। किमेषविष्णुर्न यतो ऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥