हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 149, कुल 185 में से
संदर्भ में पढ़ें११] हम्मीरभापगवर्णनम् १०१ स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खड्गघाताः । भवत्प्रभू सूकरमांसमेव सद्यः स्वेदेतां यदि जातु यातः ॥ ६६ ॥ द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः । तद्युद्धलग्नो ननु याचमानौ न किं तदीशौ जडधीर्वतंसौ ॥ ६७ ॥ शतांशमप्येकविशोपकरस्य न प्राणमोक्षेपि ददे बलेन । यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥ एवं विनिर्भर्त्स्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा । निष्कासयामास पुराद्भटानां त्रातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥ उत्तंभितान्युद्धतघर्मघर्म—च्छिदेधिशालंपटमंडपानि । दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥ वंगोपलिप्तस्फुटलोहबंध—दृढोलसत्कँकुलियष्टिदंभात् । शालोपि युद्धाय विवृद्धमन्युः संवर्मयामास भुजानिव स्वान् ॥ ७१ ॥ रालाविलं तैलमयःकटाहे तप्तं प्रकामोत्कलिकाछलेन । दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्षयतौत्सुक्यमिवादधानं ॥ ७२ ॥ चेतश्चमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि । व्यामोहहेतोः स्फुटमिंद्रजाला—नीवागतानां शकपुंगवानां ॥ ७३ ॥ दूतः प्रभूतप्रतिघोध गत्वा निजप्रभुभ्यामखिलं तदुक्तं । न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥ ब्रह्वेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान् । तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि वहिस्ततान ॥ ७५ ॥ शक्रेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः । प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो न स्वामिभक्तव्रतमुज्झतिस्म ॥ ७६ ॥ निषादिनो दंतिवरांस्तुरंगा नप्यश्ववारा रथिका रथांश्च । समंततो प्यारुरुहुः पदा (ति?) पूगा वितेनुः श्रममाहवाय ॥ ७७ ॥ महीभ्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः । दुढौकिरे योद्धुमतिप्रवृद्धो—त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥