भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 168, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 168

१२० श्रीहम्मीरमहाकाव्ये [सर्गः जामाता भूपतिस्तादृक्सुखं स्वक्षितिरक्षणं । खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥ त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः । त्रातुमावर्धितं क्ष्मा मां ददतस्तव का क्षतिः ॥ ११३ ॥ तन्निधेहि धियं तत्त्वे विधेहि समयोचितं । पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥ अयशःपटनिर्माणतुरीं तच्चातुरीमिति । श्रुत्वा भृशं स जज्वल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥ जगाद च सुते नैत त्ध्रुवं त्वन्मतिवल्गितं । अस्पृष्टपापपंकानां कुमारीणामधीरिरिति ॥ ११६ ॥ शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया । छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥ त्वद्दानेन यदिष्येत प्राज्यराज्यसुखासिका । त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥ त्यजेदेकं कुलस्यार्थे इति नीतिं यदभ्यधाः । शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥ त्याज्य एकः कुलस्यार्थे तस्माद्धीनतरः स चेत् । अहिटष्टो यथांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥ सत्यामप्यासमुद्रोव्यां कुले सारं त्वमेव नः । न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥ १२१ ॥ यदूचे मयि दत्तायां किंकिं भावि.न ते हितं । तदेतदपि ते बाल—लीलोन्मीलितमंगजे ॥ १२२ ॥ सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने । शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ ॥ १२३ ॥ अयशःपटहो लोके परलोके च दुर्गतिः । स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः ॥ १२४ ।