भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 53, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 53

[Page Header] ४ श्रीहम्मीरमहाकाव्ये [सर्गः

नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां । जितोहमैतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥ ३६ ॥ श्रीचंद्रराजेन नयैकधाम्ना ततो धरित्री बिभ्रांबभूवे । वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥ ३७ ॥ यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं । प्रज्वल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥ ३८ ॥ चापस्य यः स्वस्य चकार जीवा-कृष्टं रणे क्षेप्तुमनाः शरौघान् । जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेतन्महदेव चित्रं ॥ ३९ ॥ यस्य क्षितीशस्य च यन्महासे रन्त्योन्यमासीत्सुमहान् विरोधः । एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥ ४० ॥ तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा । यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥ ४१ ॥ भिन्नद्विषत्कुंभिघटाकटाह-कुंभोच्छलच्छोणितशोणशोचिः । यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोल्ललास ॥ ४२ ॥ अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः । यो द्यूतकृच्चतुरंगयुद्ध-क्रीडास्वजेयः समभूत्परेषां ॥ ४३ ॥ विदारितारातिकांरिद्रकुंभ-विलग्नमुक्ताफलकैतवेन । करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥ ४४ ॥ यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतार्कि । तप्तं प्रतापै र्ध्रुवमेतदीये र्विलिप्तमेतन्नवचंदनेन ॥ ४५ ॥ यदीयकीर्त्यापहतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य । पतत्प्रवाहध्वनिकैतवेन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥ रणे कणेहत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु । शिलीमुखा यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥ ४७ ॥ यस्य प्रसर्पद्विष्मायुधस्य प्रत्यर्थिनां संगरसँगतानां । स्वेदः प्रकंपो बलहानिरुच्चै रभूद्वधूनामिव वल्लभस्य ॥ ४८ ॥