हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
DevanagariSanskritpublished185 पृष्ठ
पृष्ठ 56, कुल 185 में से
संदर्भ में पढ़ेंपृष्ठ 56
१ ] पूर्वजवर्णनम् ७ सर्वातिशायिद्रुतना विधात्रा विधित्सितौजोधशसी यदीये । अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥ ७५ ॥ शंके प्रतिक्षमापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तेः । स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥ अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।
- सेनां कुमारीं बुभुजे मृधे य ललौ तथैको विजयश्रियं च ॥ ७७ ॥ यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्ससत्प्रमोदः । छुटज्जटानिर्यदमर्त्यसिंधु-पय प्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥ खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य । दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित् ॥ ७९ ॥ अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं । त्रैलोक्यलोकावलिवंद्यपादां सेवापरत्प्रत्तमहाप्रसादां ॥ ८० ॥ शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य । विश्वापतिर्विश्वहिताय शाकं-भर्या रुमां यः प्रकटीचकार ॥ ८१ ॥ ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः । शक्राधिराजस्य रणे निहत्य तन्मानवन्मुग्धपुरं ललौ यः ॥ ८२ ॥ रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकत्या चकासे । प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥ भ्रांत्याप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः । पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसन्ति ॥ ८४ ॥ अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं । निषेधतेो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः ॥ ८५ ॥ अस्याऽवनीमघवतो ऽसिलतांबुराशे- रक्ताघता सुमहतीति किमद्भुतं नः । अस्याद्भुताद्भुतमिदं तु सनीरतायां सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥